Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
३६
काव्यमाला।
भतीन्द्रियार्थप्रतिपत्तिपाटवं न जातु तेषामुपयाति सन्मुखम् ॥ ६६ ॥ परिप्लुतो यैरभिषेकवारिभिर्बभार कैलासदशामयं गिरिः । जिनेश तानि त्वयि धर्मपादपे तमीतुषारप्रतिमानि जज्ञिरे ॥ ६७ ॥ प्रयुज्यमाने तव नाम्नि जायतां प्रकाममायः पुरुषो मनीषिणाम् । जिनेश युष्मत्पदयोगसंभवेऽप्ययं भवत्युत्तम इत्यगोचरः ॥ ६८ ॥ फणीन्द्रदेवेन्द्रशिरोमणिप्रभाप्रवर्धिताहिद्युतिसिन्धुनाधुना ।। त्वया सनाथा पृथिवी जगद्वयीमधः करोतीव निरन्तरोत्सवा ॥ ६९॥ त्वमेव कल्याणनिधिः शरीरिणां शिवस्त्वमेव त्वमसि श्रियः पतिः। विहाय दृष्टं कतमः प्रकल्पयेददृष्टपूर्व भगवन्सचेतनः ॥ ७० ॥. त्रिलोककल्पद्रुमजन्मवासरे तवात्र वित्रस्यदरिष्टचारुणि। प्रसत्तिमीयुः ककुभोऽप्यचेतनाः किमुच्यते यजगतां महोत्सवः॥ ७१॥
इति विविधमशेषीकृत्य जन्माभिषेक
प्रभृति विधिमदम्भस्तत्र दम्भोलिपाणिः । उपजननि जिनेन्द्रं प्रापयामास पश्चा
त्रिदशपरिवृतः सन्नाकलोकं जगाम ॥ ७२ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये जन्माभिषेको नाम
पञ्चमः सर्गः।
षष्ठः सर्गः। अथ मृगाङ्क इवाभिनवोदितः प्रतिदिनं प्रथितावयवोन्नतिः । स पितुरम्बुनिधेरिव संमदं प्रथयति स्म यतिस्मरणोचितः ॥ १॥ तमधिगम्य महर्द्धिपरम्परापरिगतं नृपतिस्तनयं ययौ। असमसंततिकारणमित्यलं नरमणी रमणीरमणीयताम् ॥ २॥

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124