Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
१० सर्गः] नेमिनिर्वाणम् । रमणेषु तालपटहप्रहतिप्रवणेषु सत्सु हरिणीनयनाः। . ननृतुः श्लथांशुकनिवेशलसज्जधनस्थलाः समदरक्तदृशः ॥ ६ ॥ अमृतांशुबिम्बसदृशानि वधूवदनानि युक्तमुदितानि बुधैः । कथमन्यथार्पितममीभिरभूद्दयितस्य मद्यमपि नाम सुधा ॥ ७ ॥ अतिमात्रपीतमदिरासलिलैरुपतर्पितस्य मदनस्य मुहुः । नवपल्लवा इव सताम्ररुचो नयनाञ्चलाश्चलदृशां विबभुः ॥ ८ ॥ वनिताजनस्य मधुना हृदयाद्विहितेऽत्र या जवनिकापगमे । विदधद्धनुर्निजमधिज्यमथ प्रकटीबभूव भगवान्मदनः ॥ ९॥ यदुयोषितां विशदमद्यपयःप्रतिबिम्बितानि वदनानि पुरः।.. रभसेन पानरसिकानि बभुश्चषकोदरेषु पतितानि यथा ॥ १०॥ अधरस्य धौतजतुनेव रुचिप्रचयेन रक्तमिव रागकृते । उपयुज्यमानमभिमानहरं हरिणीदृशां मधु समर्थनमूत् ॥ ११ ॥ प्रतिबिम्बितैस्तपनकान्तहषच्चषकोदरेष्वथ चकोरदृशः। मधु वल्लभैः सह रसात्सहसा वदनैर्द्वितामिव गतैरपिबन् ॥ १२ ॥ न वितृष्णतामुपययौ मदिरासलिलं पिबन्नपि स कामिजनः । मदशक्तिकम्पितकरादमुतः खयमेव किंतु चषकं व्यगलत् ॥ १३ ॥ श्रवणावतंसकमलातिथिभिर्मधुपैः कृते सरसगीतरवे । घनघूर्णमाननयनान्तभुवा सुदृशां भ्रुवा मदवशाननृते ॥ १४ ॥ मधु पीयतेऽन्यवनिताभिधया हृदयेश्वरेण गदिता दयिता। अरुणेक्षणा सपदि गद्गदवाकुपिता मदश्रियमवापतमाम् ॥ १५ ॥ इतरेतरं मुखसुराग्रहणक्षणचुम्बनोपचितभावभरैः । सपदि प्रसारितभुजामिलितैमिथुनैरतन्यत रताय मनः ॥ १६ ॥ सुदृशो हियं हृदि यतो दधते हृतवाससो रमणमेव रतौ ।

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124