Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 69
________________ १० सर्गः] नेमिनिर्वाणम् । अबलानितम्बवलये रभसादतिसान्द्रकण्टकसमाकुलिते। युवदृष्टिराहितपदा भ्रमितुं न शशाक नूनमपरत्र तनौ ॥ २९॥ परितुष्यति स्म चरणाभिहतो हृदि कोऽपि कोपपरया परया । अनुकूलता न परमेणदृशां प्रतिकूलतापि रतये नितराम् ॥ ३०॥ प्रतिहन्यमानमपि हेतुशतैरिह वैभवं भवति भावि भृशम् । करपीडितं युवभिरेणदृशां स्तनमण्डलं श्रियमधादधिकाम् ॥ ३१ ॥ नयनाजचुम्बनमकारि मुदा दयितेन यन्मृगदृशो रहसि । परिलग्नकज्जलमलीमसया तदलक्ष्यताधरदलस्य रुचा ॥ ३२ ॥ श्रमवारिबिन्दुकणिकानिकरैर्दशनक्षतैर्नखपदैश्च नवैः । सुरताहवे विघटिताभरणस्तरुणीजनोऽधिकतरं शुशुभे ॥ ३३ ॥ अधरोष्ठखण्डनमुरोनिहितस्तनपीडनं च सुकुमारतनोः। तनुते स्म कर्म कठिनं तरुणः स्मरमोहिते क नु विवेकविधिः ।। ३४ ॥ अधरं मुखेन नयनेन रुचिं सुरभित्वमाजमिव नासिकया। नववर्णिनीवदनचन्द्रमसस्तरुणा रसेन युगपन्निपपुः ॥ ३५ ॥ विरतौ रतस्य सहसोदितया त्रपया कुलेन निजमेतदिति । तरुणेन पङ्कजदृशा च जवाद्वसनं तदेव जगृहेऽञ्चलयोः ॥ ३६ ॥ विविधप्रयोगसुभगं विकसन्मुखमुल्लसन्मवनखाङ्कपदम् । रतनाटकं प्रकटभावरसं निबिडाङ्गसंधि विदधे युवभिः ॥ ३७ ॥ चरणानतिप्रमुखचाटुशतैरपनीयमानमसमं सुतनोः । भुजयन्त्रपीडिततनोर्वदनादपिबद्रसं कमपि कोऽपि युवा ॥ ३८॥ नवयौवनानलकदुष्णवधूकुचलोष्टयुग्मदृढसंघटितम् । हृदयं स्फुटद्विरहवेदनया दयितस्य निर्वृतिमवाप जवात् ॥ ३९॥ सकलां निशामशयितैर्दयितैस्तरुणीजनस्य सविधे विदधे ।

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124