Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 92
________________ ८८ 'काव्यमाला। स तमाल इवोत्थितो नवः शुशुभे भूधरकाननान्तरे ॥ ७॥ कुसुमैर्विकसद्भिराहृतैः सविधोर्वीरुहसंततेर्मुहुः । मरुतः कतमे तमोपहं न तमानचुरुपागता दिशाम् ॥८॥ गिरिराजमुवं समागतो वृषमेकं धनमादधत्सदा । विरराज समाजिरध्वनै()रहिभिर्देहनिवासिभिर्विभीः ।। ९ ॥ गलकन्दललम्बमानया तनुवास्तव्यभुजंगमुक्तया । शशिरश्मिरुचा त्वचा बभौ निबिडक्षान्तिवरसजेव सः ॥ १०॥ न परं च समाधिभावनात्प्रभुरामीलितदीर्घलोचनः । चरणेऽस्य विषाणघर्षणाक्षतकण्डूम॑गसंचयोऽप्यभूत् ॥ ११ ॥ ववृधे तपसा समं कमात्परमं ज्योतिरमुष्य धीमतः । रिपवश्च मनोभवादयः सह कायेन कृशत्वमाययुः ॥ १२ ॥ कथमस्य कुतोऽप्युपद्रवः समवृत्ते खरायुधादिजः । स हि भूभृति तत्प्रभावतो मृगवर्गेऽपि किल न्यवर्तत ॥ १३ ॥ न रवः परितापमातपादमृतांशोनं च निवृति ययौ। . यदहर्निशमेष योगभृद्विनिवृत्तेन्द्रियवृत्तिरास्थितः ॥ १४ ॥ नवनीलतृणाङ्कुराकृतिप्रसरज्योतिषि तस्य विग्रहे। . प्रणयं हरिणीदृशो व्यधुर्विपिनेऽप्यस्य यथा पुरे पुरा ॥ १५ ॥ सविधे विदधेऽस्य मर्मरध्वनिरारण्यकमारुतोत्थितः । दृढसंयमयोगपीडितस्सरबाणासनभङ्गविभ्रमम् ॥ १६ ॥ इह रैवतके विवर्धते कुतपस्तेन वहन्नपि क्षमाम् । न बभूव समो मुनेरयं सुतपो वर्धयतः समन्ततः ॥ १७ ॥ सुमनोभिरुपासितः सदा सहमानस्तुहिनातपव्यथाम् । १. देवाः. २. पर्वतभूमि, पार्वती वा. ३. धर्म, बलीवद वा.

Loading...

Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124