Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
१५ सर्गः] नेमिनिर्वाणम् ।
बहारम्भपरा हिंसाः सदा रौद्रात्मवृत्तयः। नरकेषूपजायन्ते नराः सप्तसु ते ध्रुवम् ॥ ५६ ॥ बध्यन्ते तत्र भिद्यन्ते छेदं भेदं सहन्ति च । उत्कृत्यन्तेऽथ ताड्यन्ते मोट्यन्ते निर्दयं मुहुः ॥ ५७ ।। तप्तायसशिलासीना लोहकण्टकशायिनः । सिक्तास्तप्तेन तैलेन खकर्माण्युपभुञ्जते ॥ ५८ ॥ ताडितानां प्रहारेण मुखात्तेषामसृक्छटाः। निर्यान्त्यन्तवलदुःखवहिज्वाला इवोज्ज्वलाः ॥ ५९ ॥ . कण्टकाग्रनखर्भिन्ना विह्वलाः शोणलोचनाः। समं पीडाङ्गनाभिस्ते नरकेऽथासते चिरम् ॥ ६०॥ . इदं भवतु मे माभूदिदमित्यात्तवृत्तयः ।.. उत्पद्यन्ते मृता जीवास्तिर्यग्योनिषु भूरिषु ॥ ६१ ॥ रज्जुभिः संयतास्ते च कर्मबन्धैर्निरिव । आरुह्य ते परैः किंच ताड्यन्ते यष्टिभिर्भृशम् ॥ ६२ ॥ काननेषु तृणाहाराः शीतवर्षातपार्दिताः। न सुखं शेरते नित्यं व्याधव्यधभयातुराः ॥ ६३ ॥ अशुच्याहारिणः केचिस्पर्शानहा॑श्च केचन ।.. केचिद्विषमुखाः केचिद्रणेषु कृमयो मुहुः ॥ ६४ ॥ आर्तरौद्रानुविद्धेन धर्मध्यानेन भाविताः। भवन्ति भविनो मृत्वा मानवाः कर्मभूमिषु ॥ ६५ ।। उत्तमेषु कुलेष्वेके सुक्षेत्रेष्विव शालयः।। .. उत्पद्यन्ते फलप्राप्तौ गलाः प्रत्युत संततिम् ॥ ६६ ॥ अभव्याश्च भवन्त्यन्ये दुःकर्मोमिविनिर्मिताः। ।
ताः ।

Page Navigation
1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124