Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
नेमिनिर्वाणम् ।
देशान्तरेष्वथान्येषु विजहार जिनेश्वरः । दिनेश्वर इव च्छेत्तुं तमो विश्वस्य विस्फुरन् ॥ ७९ ॥ अस्पृष्टभूतलस्यास्य प्रभोर्विहरतोऽर्हतः ।
- व्योम्नि पद्मानि सप्तासन्पृष्ठतः पुरतोऽपि च ॥ ८० ॥ मुहुः परिहरन्नेकान्यन्यानि मुहुराश्रयन् ।
- वादस्थलानि वादीव कमलानि स केवली ॥ ८१ ॥ यत्र देवश्वका सौ विहारं हरिवन्दितः ।
तत्र भव्यं प्रबुद्धं न दुर्भिक्षं दिक्षु केवलम् ॥ ८२ ॥ ऋतवो भक्तितश्चेरुः शङ्के केवलिना समम् । देशेषु पुष्पिता नो चेत्कथं वृक्षास्तदागमे ॥ ८३ ॥ · इत्थं विहरतस्तस्य धर्मचक्रं पुरःसरम् । रराज रुचिरच्छायं भामण्डलमिवापरम् ॥ ८४ ॥ • सर्वासु दिक्षु विरचय्य स धर्ममेवमेकातपत्रमवसादितमोहशत्रुम् । विच्छिन्नकर्मनिगडः सह मुक्तिवध्वा
१५ सर्गः]
भेजे सुखानि भगवानविनश्वराणि ॥ ८५ ॥ - इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पञ्चदशः सर्गः ।
समाप्तश्चायं ग्रन्थः ।
९९

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124