SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ नेमिनिर्वाणम् । देशान्तरेष्वथान्येषु विजहार जिनेश्वरः । दिनेश्वर इव च्छेत्तुं तमो विश्वस्य विस्फुरन् ॥ ७९ ॥ अस्पृष्टभूतलस्यास्य प्रभोर्विहरतोऽर्हतः । - व्योम्नि पद्मानि सप्तासन्पृष्ठतः पुरतोऽपि च ॥ ८० ॥ मुहुः परिहरन्नेकान्यन्यानि मुहुराश्रयन् । - वादस्थलानि वादीव कमलानि स केवली ॥ ८१ ॥ यत्र देवश्वका सौ विहारं हरिवन्दितः । तत्र भव्यं प्रबुद्धं न दुर्भिक्षं दिक्षु केवलम् ॥ ८२ ॥ ऋतवो भक्तितश्चेरुः शङ्के केवलिना समम् । देशेषु पुष्पिता नो चेत्कथं वृक्षास्तदागमे ॥ ८३ ॥ · इत्थं विहरतस्तस्य धर्मचक्रं पुरःसरम् । रराज रुचिरच्छायं भामण्डलमिवापरम् ॥ ८४ ॥ • सर्वासु दिक्षु विरचय्य स धर्ममेवमेकातपत्रमवसादितमोहशत्रुम् । विच्छिन्नकर्मनिगडः सह मुक्तिवध्वा १५ सर्गः] भेजे सुखानि भगवानविनश्वराणि ॥ ८५ ॥ - इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पञ्चदशः सर्गः । समाप्तश्चायं ग्रन्थः । ९९
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy