________________
काव्यमाला । म्लेच्छादीनामनार्याणां दुर्वशेषु घुणा इव ॥ ६७ ॥ कर्मणा मनसा वाचा परपीडामनिच्छवः। तपोदानानुबन्धेन बध्नन्त्यायुः सुरालये ॥ ६८॥ अनुभूतफलास्तमिन्नास्थ किं कथ्यते हि वः । दिव्याङ्गनोपभोगादिसुखं खर्गेऽभिगामिनाम् ॥ ६९ ॥ धर्माधर्माणवः कालाकाशौ चाजीवसंज्ञिताः। धर्मो गतिनिमित्तं स्यादधर्मः स्थितिकारणम् ॥ ७० ॥ जगतो व्यापकावेतौ कालाकाशावनश्वरौ । समप्रविग्रहारम्भहेतवः परमाणवः ॥ ७१ ॥ उत्पन्नानामनाबद्धकर्मणामेव संवृतिः। क्रियते या सरादीनां संवरः स उदाहृतः ।। ७२ ॥ दृढं परिचयस्थैर्य कर्मणामात्मनश्च यत् ।
शुभानामशुभानां वा बन्धः स इह बुध्यताम् ॥ ७३ ॥ । कर्मणां फलभोगेन संक्षयो निर्जरा मता।
भूत्यादर्श इवात्मायं तया खच्छत्वमृच्छति ॥ ७४ ॥ कायवाानसां योगः कर्मणाश्रवसंज्ञितः। स हि निःशेषसंसारनाटकारम्भसूत्रमृत् ॥ ७५ ॥ अनेकजन्मबद्धानां सर्वेषामपि कर्मणाम् । विप्रमोक्षः स्मृतो मोक्ष आत्मनः केवलस्थितेः ॥ ७६ ॥ इति तत्त्वोपदेशेन प्रकाशेनेव नाकिनः । चकार केवली हृष्टान्सूर्यः पद्माकरानिव ।। ७७ ॥ अकरोत्स प्रमावेण तां सभां विमलाशयाम् । प्रसन्नसलिलां सद्यः शरत्काल इवापगाम् ॥ ७८ ॥