Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
१४ सर्गः] नेमिनिर्वाणम् । उप(द)पद्यत केवलं मुनेः परमं ज्योतिरनाभितेन्द्रियम् ॥ ११॥ विततार्णवराजिमीलितं परितो विस्तृतसिन्धुरेखितम् । । गिरिकानननीलभक्तिमद्वलयं खस्तिकसंनिभं भुवः ॥ १२॥ फणिलोकफणामणिप्रभापटलैभिन्नतमिसदिङ्मुखम् । अरुणांशुचयारुणीकृतं खमिव प्रातरहीन्द्रविष्टपम् ॥ १३ ॥ विविधद्युतिरत्नरोचिभिः प्रचलैयोनि विमानमण्डलैः। निजमानसयन्त्रिकैः सुरान्विहितखैरविहारविभ्रमान् ॥ १४ ॥ स ददर्श जगत्रयं ततो विलसत्केवलबोधसंपदा । अवलुप्ततमप्रदीपकप्रभया नक्तमिवात्ममन्दिरम् ॥ १५ ॥ सुकृतानवलोक्य सुस्थितान्नरकस्थांश्च विरुद्धकर्मणः । मुदमुवहति म न क्षणं करुणा भवति स्म केवली ॥ १६ ॥ - अन्तर्विशुद्धतरबोधमहर्द्धिभाजो
विभ्राजमानविततद्युतिमण्डलस्य । तस्योपमानमभवद्विनिगूढरनो
रत्नाकरः सलिलमालितदिग्निवेशः ॥ १७ ॥ अथापंगतमानवप्रकृतिरुत्तरैर्दैवतै
रयुज्यत सचेष्टितैर्दलितकर्ममा जिनः । महीरुह इचाखिलच्युतपुराणपत्रावलि
नवैः किशलयोत्करैः कलितचैत्रकालागमः ॥४८॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये उत्पन्न केवलयानों नाम
चतुर्दशः सर्गः।

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124