SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ १४ सर्गः] नेमिनिर्वाणम् । उप(द)पद्यत केवलं मुनेः परमं ज्योतिरनाभितेन्द्रियम् ॥ ११॥ विततार्णवराजिमीलितं परितो विस्तृतसिन्धुरेखितम् । । गिरिकानननीलभक्तिमद्वलयं खस्तिकसंनिभं भुवः ॥ १२॥ फणिलोकफणामणिप्रभापटलैभिन्नतमिसदिङ्मुखम् । अरुणांशुचयारुणीकृतं खमिव प्रातरहीन्द्रविष्टपम् ॥ १३ ॥ विविधद्युतिरत्नरोचिभिः प्रचलैयोनि विमानमण्डलैः। निजमानसयन्त्रिकैः सुरान्विहितखैरविहारविभ्रमान् ॥ १४ ॥ स ददर्श जगत्रयं ततो विलसत्केवलबोधसंपदा । अवलुप्ततमप्रदीपकप्रभया नक्तमिवात्ममन्दिरम् ॥ १५ ॥ सुकृतानवलोक्य सुस्थितान्नरकस्थांश्च विरुद्धकर्मणः । मुदमुवहति म न क्षणं करुणा भवति स्म केवली ॥ १६ ॥ - अन्तर्विशुद्धतरबोधमहर्द्धिभाजो विभ्राजमानविततद्युतिमण्डलस्य । तस्योपमानमभवद्विनिगूढरनो रत्नाकरः सलिलमालितदिग्निवेशः ॥ १७ ॥ अथापंगतमानवप्रकृतिरुत्तरैर्दैवतै रयुज्यत सचेष्टितैर्दलितकर्ममा जिनः । महीरुह इचाखिलच्युतपुराणपत्रावलि नवैः किशलयोत्करैः कलितचैत्रकालागमः ॥४८॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये उत्पन्न केवलयानों नाम चतुर्दशः सर्गः।
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy