SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। पञ्चदशः सर्गः। पुष्पवृष्टिर्बभूवाथ तं प्रति प्राप्तषट्पदा ।। रक्तमुक्तिवधूमुक्तकटाक्षानुकृतिक्षमा ॥१॥ आयोजनशतद्वन्द्वमद्भुतात्तत्प्रभावतः । दुर्भिक्षस्यैव संजज्ञे बाधा न प्राणिनां कचित् ॥ २ ॥ आरूढ इव रागेण विभोश्चित्तबहिर्भुवा।। अशोकतरुरासत्तिं तस्य भेजे सुपल्लवः ॥ ३ ॥ प्रभापरिभ्रमाकारं ज्ञानश्रीरत्नदर्पणम् । मुखपद्मप्रतिच्छन्दं सेवायातार्कभासुरम् ॥ ४ ॥ तस्यान्तरादिदैत्येन्द्रद्रोहिचक्रायुधोपमम् । .. कामेषुरोधिफलकं ददृशे दीप्तिमण्डलम् ॥ ५ ॥ (युग्मम्) ज्ञानदर्शनचारित्राण्यासाद्येवास्य मूर्तताम् । अन्यानि त्रीणि वत्राणि प्रादुरासन्नमायिनः ॥ ६॥ सर्वविद्याधिनाथत्वमियताप्यस्य लक्षितम् । उपसर्गाभिसंबन्धस्तेन नाम्ना न्यषेपि यत् ॥ ७॥ भामण्डलभयान्मन्ये छाया तस्यान्तराविशत् ।। यत्पशान्तिं गताः सर्वाश्चेतःसंतापसंपदः ॥८॥ दिक्षु सर्वासु चढूंषि निमेषं तस्य न व्यधुः । नमद्भव्यजनालोकव्याकुलानीव संततम् ॥ ९॥ नावर्धन्त नखास्तस्य केशाश्चेति लसद्गुणः। श्रुतं गृहीतं तैर्मन्ये यद्वृद्धिगुणवार्षिका ।। १०॥ खल्पखल्पतमप्राणिप्राणव्ययभयादिव ।
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy