________________
१५ सर्गः]
नेमिनिर्वाणम्। विहाय स महीपृष्ठे संचारमचरदिवि ॥ ११॥ भूतभाविभवद्वस्तु ज्ञानसंकाशमुल्लसत् । आतपत्रत्रयं शुभ्रं बभासे तस्य संनिधौ ॥ १२ ॥ दिवि दुन्दुभिनादोऽभूत्तत्प्रभावमृगप्रभोः। दुनिमित्तेभयूथेभ्यो हुंकार इव कुप्यतः ॥ १३ ॥ खकालमन्तरेणापि तरूनास्कन्धपुष्पितान् । . ससंभ्रमदृशो दूरं ददृशुर्वनदेवताः ॥ १४ ॥ अथादेशं सुरेशस्य प्राप्य पुण्यजनेश्वरः । किल निर्वतयामास तस्मै रत्नमयीं सभाम् ॥ १५ ॥ उपर्युपागतैर्नव्यैः क्षणं जलदमण्डलैः । यत्र मारकती चक्रे स्फुटं स्फटिकमेदिनी ॥ १६ ॥ नानारत्नमयस्तम्भप्रभाच्छुरितविग्रहाः। मयुरा इव यद्भित्तिचित्रहंसाश्चकासिरे ॥ १७ ॥ यत्र स्फटिकसोपानबिम्बिताः केतवश्वलाः। व्योमगङ्गातरङ्गान्तलोलमीनतुलां दधुः ॥ १८॥ . दिव्यपुष्पोपहाराय पतन्ती षट्पदावलिः । .. नीलरत्नमयी वृष्टिरिव यत्र व्यराजत ॥ १९॥ कर्पूरागुरुसंभूता धूपजालोद्गता बभौ । यत्रागतानां जीवानां निर्यान्तीव तमस्ततिः ।।२०।। नक्षत्ररतखचिता चन्द्रकुम्भप्रभासिनी ।' . .. जगन्मयीव या रेजे व्योमगङ्गापताकया ॥ २१ ॥ ; उच्चैः केतुकरप्रान्तस्फारिताभ्रसरिजलात् । उत्थिता इव भान्ति स पृषता यत्र तारकाः ॥ २२ ॥