Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
पञ्चदशः सर्गः। पुष्पवृष्टिर्बभूवाथ तं प्रति प्राप्तषट्पदा ।। रक्तमुक्तिवधूमुक्तकटाक्षानुकृतिक्षमा ॥१॥ आयोजनशतद्वन्द्वमद्भुतात्तत्प्रभावतः । दुर्भिक्षस्यैव संजज्ञे बाधा न प्राणिनां कचित् ॥ २ ॥ आरूढ इव रागेण विभोश्चित्तबहिर्भुवा।। अशोकतरुरासत्तिं तस्य भेजे सुपल्लवः ॥ ३ ॥ प्रभापरिभ्रमाकारं ज्ञानश्रीरत्नदर्पणम् । मुखपद्मप्रतिच्छन्दं सेवायातार्कभासुरम् ॥ ४ ॥ तस्यान्तरादिदैत्येन्द्रद्रोहिचक्रायुधोपमम् । .. कामेषुरोधिफलकं ददृशे दीप्तिमण्डलम् ॥ ५ ॥
(युग्मम्) ज्ञानदर्शनचारित्राण्यासाद्येवास्य मूर्तताम् । अन्यानि त्रीणि वत्राणि प्रादुरासन्नमायिनः ॥ ६॥ सर्वविद्याधिनाथत्वमियताप्यस्य लक्षितम् । उपसर्गाभिसंबन्धस्तेन नाम्ना न्यषेपि यत् ॥ ७॥ भामण्डलभयान्मन्ये छाया तस्यान्तराविशत् ।। यत्पशान्तिं गताः सर्वाश्चेतःसंतापसंपदः ॥८॥ दिक्षु सर्वासु चढूंषि निमेषं तस्य न व्यधुः । नमद्भव्यजनालोकव्याकुलानीव संततम् ॥ ९॥ नावर्धन्त नखास्तस्य केशाश्चेति लसद्गुणः। श्रुतं गृहीतं तैर्मन्ये यद्वृद्धिगुणवार्षिका ।। १०॥ खल्पखल्पतमप्राणिप्राणव्ययभयादिव ।

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124