Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला।
चित्रचक्रमणव्याजाद्वाजिनो ननृतुः स्वयम् ॥ १५॥ दन्तप्रणालैरुल्लासिकुम्भैः करिभिरग्रगैः। अलक्ष्यत पुरीवास्य स्नेहाप्रचलिता गृहैः ॥ १६ ॥ बातायनादिरूढास्तं लाजैः पुरपुरन्ध्रयः। . कटाक्षश्च परिक्षिप्तैः सममेवार्चयन्मुदा ॥ १७॥ शुभैर्नभसि नीरन्धैश्छत्रैश्चन्द्रोदये कृते । किमाश्चर्यमिदं लोकैर्नालोक्यत यदंशुमान् ॥ १८॥ रजो मदजलासारैर्वारयन्तः समुच्छलेत् । सह प्रस्थायिनो जाताः सत्यार्थास्तस्य वारणाः ॥ १९ ॥ अनूनया विभूत्यासौ भासमानो महामनाः। . सहस्रनेत्रलब्धेः प्राक्पुरुहूत इवारुचत् ॥ २० ॥ स्तुतिकोलाहलैः पश्चाहन्दिवृन्दानि सुन्दरैः । .. नेमिः प्रथममेवाशास्तेषां दानैरपूरयत् ॥ २१ ॥ स्थानस्थानकृतोद्दामहेममङ्गलतोरणम् । राजमार्ग शनैः कामन्निश्चक्राम पुरादसौ ॥ २२॥ : पुरोगैरनुगैः स्फारा विशिखान्तःकृशा चमूः । सारपमध्याङ्गनेवासीद्विशालजघनस्तनी ॥ २३ ॥ अनुकूलमरुद्वेल्लद्वैजयन्तीकरैर्मुहुः । तमाह्वदिव सप्रेमा गच्छन्तं द्वारकापुरी ॥ २४ ॥ ददर्श सागरं नेमिः स्फुरत्कङ्कणशालिना । ऊर्मिहस्तेन कुर्वन्तं सरिद्वीचिकरग्रहम् ॥ २५ ॥
समेतबन्धुवर्गस्य वरस्यास्य प्रसर्पतः। १. 'रथ्या प्रतोली विशिखा' इत्यमरः.

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124