Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 79
________________ १२ सर्गः] नेमिनिर्वाणम् । संबन्धिनः पुरे वार्ता सह तूर्यरवैरगात् ॥ २६ ॥ अथोग्रसेनो नृपतिरत्यन्तप्रीतमानसः । स विशेषोत्सवामात्मराजधानीमकारयत् ॥ २७ ॥ तत्र राजपथाः कामं सिक्ताः कुङ्कुमवारिणा । कलधौतशिलाबद्धभूतला इव रेजिरे ॥ २८ ॥ चेरुस्तत्र न नीरन्ध्रध्वजच्छायेषु वर्मसु । आपातिसैन्यसंमर्दभीता इव रुचो रवेः ॥ २९ ॥ खर्णतोरणरत्नानां रश्मिभिर्गगनोन्मुखैः। रोमाञ्चितेव सा रेजे राजधानी प्रमोदतः ॥ ३० ॥ गन्धवारिभिराक्रान्तं तत्र यावद्भुवो रजः । पुष्पप्रकरसंभूतं तावदन्यदजायत ॥ ३१॥ पौरैरेवोग्रसेनस्य मोत्सवव्याकुलात्मभिः । भक्तिवैचित्र्यमेतस्यां दर्शितं मन्दिरैरपि ॥ ३२॥ मङ्गलखाननैर्मल्यभाजं राजीमतीमथ । साधु प्रसाधयामास कुलवृद्धो वधूजनः ॥ ३३ ॥ शरीरकान्तिसंतानविभ्रमं बिभ्रती नवे । वसाना वाससी खच्छे सा चकाशे सुवासिनी ॥ ३४ ॥ अशोभत शुभे तस्याश्चान्द्रनस्तिलको मुखे । प्ररूढ इव चन्द्रान्तश्चन्द्रमाश्चारुमण्डलः ॥ ३५ ॥ तस्याः स्थितिमुरोदेशे लब्ध्वा हृदयहारिणि । हारो मुक्तामयः कामममन्दरुचितामगात् ॥ ३६॥ अञ्जनं मलिनच्छायं तस्याः खच्छे विलोचने । सौभाग्यसिद्धिजनकस्तेषां योगस्तथाप्यभूत् ॥.३७ ॥ .. .

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124