Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
'काव्यमाला।
रत्नकेयूरनिष्ठ्यूतैः प्रभूतैः कान्तिवारिभिः । जातं बाहुलतामूलं तस्याः प्रोल्लासि सर्वतः ॥ ३८॥ सुमुखी शुभ्रवसना विरेजे रत्नभूषणैः । संपूर्णसोमनक्षत्रैः शारदी क्षणदेव सा ॥ ३९ ॥ विवाहमहकर्तव्यं प्रगुणय्य गुणी नृपः । आहूत इव तत्तथैर्वरस्याभिमुखं ययौ ॥ ४० ॥ नव्यानरूपैः करिभिः सगन्धर्वगणैर्वृतः । उग्रसेनः सहस्राक्ष इव साक्षादलक्ष्यत ॥ ११ ॥ महीरेणुमहातोद्यनादकेतूष्णवारणैः । आविर्भूतं मिथस्तत्र वर्गयोरुभयोः क्रमात् ॥ ४२ ॥ ततो वरवधूवर्गों वीक्षितान्योन्यवैभवौ । समृद्धिगर्वमुत्सृज्य संबन्धिमदमीयतुः ॥ १३ ॥ अथ कूजद्रथाङ्गौ तौ पुण्डरीकौघमण्डितौ । संगम जग्मतुः पक्षौ प्रवाही सैन्धवाविव ॥ १४ ॥ वरश्वशुरयोरासीदथ श्लेषस्तयोः पथि । अर्थयोरिव सत्काव्ये विदग्धोत्या प्रतीतयोः ॥ ४५ ॥ प्रसारितभुजापक्षा बृहत्कैटकशालिनः । यथाक्रममथाश्लिष्यन्नपरेऽपि महीभृतः ॥ १६ ॥ न केवलं स्फुरत्कान्तिचक्राः संबन्धियोषितः । मुक्तालताश्च संश्लिष्टाः पृथग्भावं चिरादगुः ॥ ४७ ॥ अथाग्रगामिना भूमिखामिना सह तत्क्षणम् ।
१. 'रथाङ्गं न द्वयोश्चके ना चक्राह्वविहंगमे'. २. 'पुण्डरीकं सिताम्भोजे सितच्छत्रे च.' ३. 'कटकस्त्वद्रिनितम्बे बाहुभूषणे । सेनायाम्'. ४. राजानः, पर्वताश्च,

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124