Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 77
________________ १२ सर्गः] नेमिनिर्वाणम् । निस्तलस्तिलको नासावंशस्योपरि चान्दनः । .. . कुमारवदनाम्भोजश्रियश्छत्रतुलामघात् ॥ ५॥ गतत्रासादिदोषस्य लोकचूडामणेः खयम् ।। मण्डनस्थितिरित्यस्य चूडायां निहितो मणिः ॥ ६ ॥ अङ्गदायैर्वृतो रामः ससुग्रीवो महाभुजः । समुद्रविजयाह्लादी स प्रियाप्तिक्षमोऽभवत् ॥ ७ ॥ अङ्गरागः कुमारस्य खच्छोऽपि कुशलैः कृतः। कासां न योषितां सान्द्रं मनोरागमवर्धयत् ॥ ८॥ . स शुभ्रे वाससी बिभ्रद्वभासे श्यामविग्रहः । अञ्जनादिरिवोपान्तविश्रान्तशरदम्बुदः ॥ ९॥ परसंतापविच्छित्तिहेतुं सद्वृत्तमुज्ज्वलम् । अथो विभूषयामास तं सितातपवारणम् ॥ १०॥ रेजतुश्चामरे चन्द्रचारुणी तस्य पार्श्वतः । 'निर्मले धर्मयशसी सदा संनिहिते इव ॥ ११ ॥ विवाहमहमाङ्गल्यक्रियाः काश्चिद्यथाक्रमम् । प्राप्तो वृद्धाजनश्चक्रे तस्याशीमुखराननः ॥ १२ ॥ अथारुह्य रथं नेमिर्मनोरथमिवोन्नतम् । प्रतस्थे मङ्गलातोद्यनादैराहूतभूपतिः ॥ १३ ॥ आलोकितजरासन्धबलस्तम्भादिकं यशः। गायन्ति स्म कुमारस्य सुकुमारगिराङ्गनाः ॥ १४ ॥ क्षितौ खुरपुटातोद्यनादं विदधतः पुरः। १. अगदो वालिपुत्रः, केयूरं चात्राङ्गदम्. २. सुप्रीवाख्यवानरेण, शोभनप्रीक्या च. ३. समुद्रस्य विजयेनालादो यस्य, समुद्रविजयनामानं पितरमाहादयतीति.

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124