Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 76
________________ 'काव्यमाला । 'संतानवानपि सुगात्रि कृतोऽहमद्य पुत्रत्वयैव गृहमेधिषु माननीयः । त्वत्प्रार्थनार्थमिह यज्जगदेकवीरो 'नारायणः स्वयमयं मदगारमागात् ॥ ५५ ॥ आभाषणादित्युपजातलज्जां सुतां प्रतिश्रुत्य नयश्रुतज्ञः । विवाहलग्नार्हमुहूर्तमेकं निर्णीय जिष्णुर्विससर्ज कृष्णम् ॥ ५६ ॥ ७२ " कृष्णः संबन्धिना तेन ग्राहिताभिनवांशुकः । समुद्रविजयस्येमं सिद्धमर्थं न्यवेदयत् ॥ ५७ ॥ समुद्र विजयस्ततस्तनय योग्यरूपां वधूं सुतोचितमवाप्य तं वरमथोग्रसेनोऽपि च । उभौ प्रमदनिर्भरौ परिणयोत्सवप्रक्रमे विधेयविधिविस्तरं विभववासवौ चक्रतुः ॥ ५८ ॥ इति श्रीने मिनिर्वाणे वाग्भटविरचिते महाकाव्ये राजीमती प्रार्थनो नामैकादशः सर्गः . द्वादशः सर्गः । विवाहार्थ प्रतिष्ठासुरुग्रसेनपुरीं प्रति । अङ्गीचकार नेपथ्यं नेमिनाथो यथाविधि ॥ १ ॥ प्रतिबिम्बितनिःशेषपदार्थनिवहः प्रभोः । हृदये निर्मलस्तस्य हारो भाव इवाबभौ ॥ २ ॥ नेमेः कङ्कणरत्नौघप्रभापल्लविताविव । ऊहतुः कामपि च्छायामर्थिकल्पद्रुमौ भुजौ ॥ ३ ॥ रत्नकुण्डलयोः कान्तिः कर्णान्तिकचरी बभौ । स्तुतिरैन्द्रीय सद्भक्तिर्नानावर्णविराजिनी ॥ ४ ॥

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124