Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 70
________________ काव्यमाला। वसनं मुदैकमपरं जघनाजगृहे च मोहनकुतूहलिभिः ।। ४० ॥ शिरसैव मां वहति नित्यमियं कुरुते रतेष्वध इतीव तनोः । श्लथबन्धलक्ष्यकुसुमः समभूत्स विलक्ष्यहास इव केशचयः ॥ ४१॥ पटमन्दिरेषु रजनीपवनः प्रविशन्प्रदीपमनयद्विरतिम् । हृदयेषु कामुकजनस्य पुनर्मदनानलं ज्वलयति स भृशम् ॥ ४२ ।। अधरेषु पङ्कजदृशाममृतं वसतीति निश्चिनुमहे नितराम् । यदमीमिरुल्लसितमेव रतौ शतशो भुजंगदशनव्रणितैः ॥ ४३॥ युवमावकुम्भिविभुकुम्भरुचोस्तनयोरुपर्यतनुविस्तरयोः । सुदृशामराजततमामरुणा मदनाङ्कुशक्षतततिः सुरते ॥ ४४ ॥ . ___ अभ्युद्गते शशिनि मन्मथमूलमात्रे ___ पीत्वा मधूनि मधुराणि यथाभिलाषम् । लीलाविनीतवनितासुरतप्रसङ्गैः क्षोणीभृतः क्षणमिव क्षणदामनेषुः ॥ ४५ ॥ दोलान्दोलनकेलिभिः प्रतिवनव्याकोशपुष्पोत्कर खीकारेण सरोजरेणुरुचिरे नीरे मुहुः क्रीडया । आपानोत्सवगीतिभिश्च सरसैः संसारसारैः सुखै रित्यं रैवतके वसन्तसमयस्तैः प्रेरितः पर्वते ॥ १६ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये मधुपानसुरतवर्णनो नाम दशमः सर्गः। एकादशः सर्गः। पृथ्वीनाथस्योग्रसेनस्य पुत्री पात्रं कान्तः सार्धमन्तःपुरेण । तत्रायाता क्रीडितुं मासि चैत्रे नेत्रानन्दं नेमिनाथं ददर्श ॥ १ ॥ १. वासं वलं च.

Loading...

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124