SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ १० सर्गः] नेमिनिर्वाणम् । रमणेषु तालपटहप्रहतिप्रवणेषु सत्सु हरिणीनयनाः। . ननृतुः श्लथांशुकनिवेशलसज्जधनस्थलाः समदरक्तदृशः ॥ ६ ॥ अमृतांशुबिम्बसदृशानि वधूवदनानि युक्तमुदितानि बुधैः । कथमन्यथार्पितममीभिरभूद्दयितस्य मद्यमपि नाम सुधा ॥ ७ ॥ अतिमात्रपीतमदिरासलिलैरुपतर्पितस्य मदनस्य मुहुः । नवपल्लवा इव सताम्ररुचो नयनाञ्चलाश्चलदृशां विबभुः ॥ ८ ॥ वनिताजनस्य मधुना हृदयाद्विहितेऽत्र या जवनिकापगमे । विदधद्धनुर्निजमधिज्यमथ प्रकटीबभूव भगवान्मदनः ॥ ९॥ यदुयोषितां विशदमद्यपयःप्रतिबिम्बितानि वदनानि पुरः।.. रभसेन पानरसिकानि बभुश्चषकोदरेषु पतितानि यथा ॥ १०॥ अधरस्य धौतजतुनेव रुचिप्रचयेन रक्तमिव रागकृते । उपयुज्यमानमभिमानहरं हरिणीदृशां मधु समर्थनमूत् ॥ ११ ॥ प्रतिबिम्बितैस्तपनकान्तहषच्चषकोदरेष्वथ चकोरदृशः। मधु वल्लभैः सह रसात्सहसा वदनैर्द्वितामिव गतैरपिबन् ॥ १२ ॥ न वितृष्णतामुपययौ मदिरासलिलं पिबन्नपि स कामिजनः । मदशक्तिकम्पितकरादमुतः खयमेव किंतु चषकं व्यगलत् ॥ १३ ॥ श्रवणावतंसकमलातिथिभिर्मधुपैः कृते सरसगीतरवे । घनघूर्णमाननयनान्तभुवा सुदृशां भ्रुवा मदवशाननृते ॥ १४ ॥ मधु पीयतेऽन्यवनिताभिधया हृदयेश्वरेण गदिता दयिता। अरुणेक्षणा सपदि गद्गदवाकुपिता मदश्रियमवापतमाम् ॥ १५ ॥ इतरेतरं मुखसुराग्रहणक्षणचुम्बनोपचितभावभरैः । सपदि प्रसारितभुजामिलितैमिथुनैरतन्यत रताय मनः ॥ १६ ॥ सुदृशो हियं हृदि यतो दधते हृतवाससो रमणमेव रतौ ।
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy