________________
६४
काव्यमाला |
परिरेभिरे तमदयं वनिताचरितं मतं दुखबोधमतः ॥ १७ ॥ उपगूहतः प्रियतमस्य दृढं प्रथमानवेपथु विहस्तभुजा । परिरम्भमग्रमणितं न वधूरश क द्विधातुमपरा सुरते ॥ १८ ॥ सुरतश्रमप्रभववारिलवप्रकरो रराज मिथुनस्य तना । निबिडोपगूहनवशेन दलन्मणिहारचूर्ण इव कीर्णकणः ॥ १९ ॥ अधरौष्ठदंशविकसद्वदनप्रविश प्रियादशनराजिरुचः । तरुणा विरेजुरमलं सुरते रसमापिबन्त इव मूर्तिधरम् ॥ २० ॥ स्थितिमर्पयत्कुचयुगं सुतनोः कमितुर्निपीडयदुरोऽपि समम् । समभूषयन्मणिगणः सुरते सममित्रशत्रुरथवा विमलः ॥ २१ ॥ नखलाङ्गलैर्विलिखितासु नृणां पुलकच्छलादविरलाः परितः । मदनाङ्कुराः सुरतकेलिजुषां जघनस्थलीषु सुदृशामुदगुः ॥ २२ ॥ · अपनीयमानपरिधानपुटं स्फुटकान्तिचारु दयितोरुयुगम् । ददृशे प्रियेण हृतबादलं कदलीप्रकाण्डमनुकुर्वदलम् ॥ २३ ॥ रमणापाणिनिहिता निबिडं हृदि वाणिनी न मणितं विदधे । मनसि स्थितः प्रकटमट्टहसं कुरुते स्म किंतु मुदितो मदनः ॥ २४ ॥ निजजीवितेशकरजाग्रकृतक्षतपतयः शुशुभिरे सुरते ।
कुपितस्मरप्रहितबाणगणत्रणजर्जरा इव सरोजदृशः ॥ २५ ॥
त्रपया प्रदीपमनयत्प्रशमं रमणी मिषान्तरवशेन नवा । यदि वा प्रकाशयति योऽपि रहः कृतिभिः कथं स निकटः क्रियते ॥ २६ ॥ मिथुनैार्मथो वदनपानरसप्रतिपन्ननिद्रनयनाम्बुरुहैः । उपदेशतः स्मरगुरोरचिरादुपलभ्यते स्म खलु योगसुखम् ॥ २७ ॥ अतिदूरमुज्झितदुकूलयुगैरितरेतरं परिगृहीतकचैः । मिथुनैः स्मरग्रहनिवेशवशाद्विवशैरलज्ज मुदमादिरतौ ॥ २८ ॥
१. 'वाणिनी नर्तकी मत्ताविदग्धवनितासु' इति मेदिनी ..