Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
९ सर्गः ]
नेमिनिर्वाणम् ।
६१
मुकुरे कुरङ्गकदृशावलोकितस्तिलकः कयापि सविलासमेकया । सरसः प्रसाधितसमस्तकाननः सहसा चकार कुसुमेषुसंभवम् ॥ ४४ ॥ कुसुमानि बन्धनमवापुरङ्गना शिरसि स्थितिं समधिगम्य दुर्लभाम् । यदि वा भजन्ति विपदं त एवं ये पदमुन्नतैरनुभवन्ति सद्गुणाः ॥ ४५ ॥ अमृतोपमाघरदलाः कलखराः सुकुमारविग्रहभृतः सुदर्शनाः । अथ धूपनात्सुरभयो नतभ्रुवः सकलेन्द्रियार्थनिधयोऽभवन्नृणाम् ॥ ४६ ॥ तुहिनांशुना मदन बालबन्धुना हृतमत्सरान्धतमसाः सुमध्यमाः । व्यसृजन्निजेशमनसां प्रसादनप्रतिपत्तिपात्रमथ दूतिकाजनम् ॥ ४७ ॥ भवति व्यवस्थितमनोरथस्थितेः प्रसृतेऽधुना धवलधाम धामनि । शशिकान्तमश्रुसलिलस्रुतिप्लुतं भवति स्फुटं मुखमधीरचक्षुषः ॥ ४८ ॥ नलिनीदलानि न न हारयष्टयस्तुहिनांशवो न न जलार्द्रमंशुकम् । त्वद्यते तदङ्गपरितापशान्तये विपदोऽथवा खजनसङ्गभेषजाः ॥ ४९ ॥ अनुरागमायतदृशः कृशेतरं त्वयि न प्रियंवदतया वदामि तम् । लिखितत्वदाकृतिरनेकशस्तया रतिवासभित्तिरपि तेऽभिधास्यति ॥ ५० ॥ अभिधाय सानुनयमित्यनेकशो निशि दूतिकाभिरुपनीतगौरवाः । स्वयमेव गन्तुमनसोऽथ वल्लभाः प्रययुर्निजं निजमभिप्रियाजनम् ॥५१॥ (चतुर्भिः कुलकम् ) अवलोक्य कापि पतिमागतं पुरः सहसैव दुर्वहनितम्ब मण्डला । विनयान्वितापि न शशाक सत्वरं परिहर्तुमासनमधीरलोचना ॥ ५२ ॥ खगृहागमप्रचलितं प[ रा ] वधूरवगत्य कापि निजहेरिकी गिरा । सह देहदाहलहरेण पद्मिनीदलकल्पितं सपदि तल्पमत्यजत् ॥ ५३ ॥
१. वृक्षविशेषोऽपि. २. काननं वनम् ईषदाननं च. ३. कामोत्पत्तिं पुष्पेषु संभवं च. ४. अनवगतार्थमेतत्पद्यम्.

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124