Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 63
________________ ९ सर्गः] नेमिनिर्वाणम् । सविकासकैरवकपालमालया तुलयांचकार हरमिन्द्रदिङ्गः ।। २२ ॥ असूजा विलिप्त इव नव्यचन्द्रिकाप्रसरेण किंचिदुपनीतशोणिमा। : क्षणमर्धचन्द्रदलिताप्रविग्रहस्तमसः कबन्ध इव संचयोऽभ्रमत् ॥ २३ ।। तमसा विलुप्तमिह पूर्वपर्वतः क्षितिमण्डलं निजमवेत्य सर्वतः। मृगवर्णलाञ्छितमदर्शयत्पुरः पृथुताम्रशासनमिवेन्दुमण्डलम् ॥ २४ ॥ उदयेऽभिताम्ररुचिरिन्दुरुल्लसच्छशलाञ्छनच्छवि रराज तत्क्षणम् ।। मृगनाभिपत्रलतिकापरिष्कृतः क्षणदाकपोल इव कुङ्कुमारुणः ॥२५॥ तिमिरस्य विश्वनयिनो निपातनप्रतिमल्लतां कलयता कलावता । अरुणेन कोपनतयेव विग्रहः सहसा न्यरुद्धत समुद्धतैः करैः॥ २६ ॥ प्रथमं जपाकुसुमकान्तिकुङ्कुमस्तबकोपमं दशशताक्षदिङ्मुखे । . दहशे नभो महिषमूर्ध्नि चन्द्रकप्रतिमं ततो धवलमिन्दुमण्डलम् ॥२७॥ किरणप्ररोहशरराजिराजितं भुवनं विजेतुमभिवाञ्छतो निशि । श्रवणान्तकृष्टवलयीकृतं बभौ मदनस्य चापमिव बिम्बमैन्दवम् ॥ २८ ॥ वनमालया कलितकान्तिसंपदः प्रथमानपादतटिनीविराजिनः । उदयाचलस्य सविधे विधुः श्रियं श्रयति स्म शङ्ख इव दानवद्विषः॥२९॥ स्फुटराजमानकरराजिदन्तुरं दधतोद्धरं मुखमिवोरुमण्डलम् । दलिताञ्जनोदरसहोदरद्युतिः कवलीकृतस्तिमिरराहुरिन्दुना ॥ ३० ॥ हिमदीधितिः स्फुटकलाकलापभृत्प्रकटीभवद्भिरिपयोधरश्रियः। उदतारयन्नवनिशामृगीदृशः खकरैस्तमोनिकरनीलकञ्चकम् ॥ ३१ ॥ प्रतिदिङ्मुखप्रसृतकान्तिजालके शशमृत्युपव्रजति लुब्धकाधिपे । परिहृत्य पङ्कमिव कश्मलं नभो निभृतं ययौ तिमिरशूकरः कचित् ॥३२॥ १. कलानां षोडशानां समूहम्, चतुःषष्टिः कलाश्च कामशास्त्रे प्रसिद्धाः. २. गिरितुल्यस्तनयोः पर्वतानां मेघानां च. ३. 'जालं समूह आनायः' इत्यमरः.

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124