Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 61
________________ ९ सर्गः] नेमिनिर्वाणम् । नवमः सर्गः। अतिथीभवन्तमथ तं वसुक्षये शिरसा बभार रविमस्तभूधरः। उपकारिणां खयमहो महविनामुपकर्तुमन्तरमतीव दुर्लभम् ॥ १॥ परिलङ्घनीयगगनान्तमागतस्तरणिर्बभूव सहसारुणप्रभः । कलुषीभवत्यनुकलं दिनात्यये प्रभुरप्युपैति यदिवानुगश्रियम् ॥ २॥ कनकप्रवालशुककायकोमलैर्दिननाथसारथिरथाश्वरश्मिभिः। छुरिता इवासदृशकायकान्तयः प्रकटीबभूवुरथ सांध्यवारिदाः ॥ ३ ॥ लसमानमीनमकरो महात्मनामुपमानमैच्छतरवारिसुन्दरः । प्रतिबिम्बिते सति पतङ्गमण्डले कलयांचकार जलधिर्नभस्तुलाम् ॥ ४॥ सवितुः समीपमुपसर्पतः सतः प्रतिबिम्बमम्बुनि निकामनिर्मले। रुरुचेतरां रुचिररत्ननिर्मितं धृतमर्घपात्रमिव वारिराशिना ।.५॥ . रविरस्तभूधरशिरःसमाश्रितो वनवह्निरुत्थित इवैक्ष(क्ष्योत क्षणम् । पतितः क्षणेन च ततः पयोनिधौ विततान वाडवविभावसुभ्रमम् ॥ ६ ॥ लहरीहृतप्रथितफेनसंचयैर्वदनैः समुद्भुरितवक्रकन्धराः । जलधिं विगाह्य रथवाजिनो रवेगगनावलङ्घनपरिश्रमं जहुः ॥ ७ ॥ नियतिप्रवातवशतस्ततो जवादवसानमीयुषि दिनेशदीपके। जनजातरूपहृतये तमश्चयः प्रविवेश चौर इव विश्वमन्दिरे ॥ ८॥ .. प्रलयं गते दिनपतौ विधेर्वशात्परिरभ्य गाढमितरेतरं दिशः। समदुःखिता इव पतत्रिणां वै रुरुदुस्तमःसिचयसंवृताननाः ॥ ९ ॥ अतिमात्रपीतवसुधारसं क्रमात्परिमन्दतां गतमहःपतेर्महः । अधिगन्तुमात्मपटुतां पुनर्दिने ध्रुवमौषधीरभजत प्रतिक्षपम् ॥ १० ॥ १. मीनमकरौ यादोविशेषौ राशिविशेषौ च. २. अच्छतुरेष्टकारिणनिशा यस्तरवारिस्तद्वत्सुन्दरः.

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124