Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 60
________________ ५६ 'काव्यमाला । दक्षिणः कण वामे वामश्विक्षेप दक्षिणे । रक्तौ मिथः करौ स्त्रीणामभूतां तुल्यसत्कृती ॥ ७३ ॥ कुण्डलं कङ्कणस्थाने निक्षिपन्ती मृगेक्षणा । कापि सख्या निराचक्रे प्रियप्रहितमानसा ॥ ७४ ॥ न्यस्यमाना मुहुर्यूना कस्याश्चन नतभ्रुवः । विद्यति प्राप नैवास्थां कपोले पत्रवल्लरी ॥ ७५ ॥ - पूगत्वच्मार्जितैर्दन्तैर्मुखं कस्याश्चिदाबभौ । निजखामिशशिभ्रान्त्या सेवायातैरिवोडुभिः ॥ ७६ ॥ कुण्डं हुतस्य कामाः कामं यौवनयज्वना । नाभिमण्डलमानर्च काचिच्चन्दनदानतः ॥ ७७ ॥ इत्थं प्रकाश्य नामात्मप्रसाधनविधिश्रियम् । 'जलाशयतटात्तन्व्यश्चेलुः सहचरैः सह ॥ ७८ ॥ तरसा सरसैः शब्दैः पक्षिणां दक्षिणानिलः । आदिष्ट इव तं राजलोकमन्वग्ययौ मृदुः ॥ ७९ ॥ अथ सलिलविलास यादवानामुदारैः सह निज निजदारैस्तत्र वीक्ष्येव रम्यम् । दिनपतिरपि खिन्नः खं व्यतीत्यातिमात्रं करकलितदिनश्रीः सागरान्तं जगाम ॥ ८० ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये जलक्रीडाभिधानो नाम सर्गः 1 अष्टमः

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124