SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ३६ काव्यमाला। भतीन्द्रियार्थप्रतिपत्तिपाटवं न जातु तेषामुपयाति सन्मुखम् ॥ ६६ ॥ परिप्लुतो यैरभिषेकवारिभिर्बभार कैलासदशामयं गिरिः । जिनेश तानि त्वयि धर्मपादपे तमीतुषारप्रतिमानि जज्ञिरे ॥ ६७ ॥ प्रयुज्यमाने तव नाम्नि जायतां प्रकाममायः पुरुषो मनीषिणाम् । जिनेश युष्मत्पदयोगसंभवेऽप्ययं भवत्युत्तम इत्यगोचरः ॥ ६८ ॥ फणीन्द्रदेवेन्द्रशिरोमणिप्रभाप्रवर्धिताहिद्युतिसिन्धुनाधुना ।। त्वया सनाथा पृथिवी जगद्वयीमधः करोतीव निरन्तरोत्सवा ॥ ६९॥ त्वमेव कल्याणनिधिः शरीरिणां शिवस्त्वमेव त्वमसि श्रियः पतिः। विहाय दृष्टं कतमः प्रकल्पयेददृष्टपूर्व भगवन्सचेतनः ॥ ७० ॥. त्रिलोककल्पद्रुमजन्मवासरे तवात्र वित्रस्यदरिष्टचारुणि। प्रसत्तिमीयुः ककुभोऽप्यचेतनाः किमुच्यते यजगतां महोत्सवः॥ ७१॥ इति विविधमशेषीकृत्य जन्माभिषेक प्रभृति विधिमदम्भस्तत्र दम्भोलिपाणिः । उपजननि जिनेन्द्रं प्रापयामास पश्चा त्रिदशपरिवृतः सन्नाकलोकं जगाम ॥ ७२ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये जन्माभिषेको नाम पञ्चमः सर्गः। षष्ठः सर्गः। अथ मृगाङ्क इवाभिनवोदितः प्रतिदिनं प्रथितावयवोन्नतिः । स पितुरम्बुनिधेरिव संमदं प्रथयति स्म यतिस्मरणोचितः ॥ १॥ तमधिगम्य महर्द्धिपरम्परापरिगतं नृपतिस्तनयं ययौ। असमसंततिकारणमित्यलं नरमणी रमणीरमणीयताम् ॥ २॥
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy