________________
६ सर्गः]
नेमिनिर्वाणम् । परिहृताखिलदिक्पतिसेवया नवनवार्पितकान्तिविशेषया । ... विभुरलंक्रियते स स संततं परमया रमयारमयान्वितः ॥ ३ ॥ .. जनविलोचनलोभनतां ययौ द्वितयमस्य निसर्गमनोहृतः। वदनशीतरुचौ परिमुग्धता कमलचारुणि चारुणिमा पदे ॥ ४॥
अविशदखरया परपुष्टया मधुरिवाभिनवः स गिरा शिशुः। .. स्मितलवेन तथा कुसुमश्रिया भृशमराजत राजतकान्तिना ॥ ५॥ दशभिरुल्लसदंशुभिरंहिजैर्दश दिशो विदधान इवामलाः । अथ शनैर्दययेव भुवः क्रमं स विततान तैताननमण्डलम् ॥ ६॥ कनकघुर्घरशिञ्जितमञ्जना चरणचऋमितेन मितेन सः। व्यधित पावनमात्मपितुहं पैरमनारमनाकुलमानसः ॥ ७ ॥ चलशिखेन यथा शिखिना लता रुचिरकान्तिकलापभृतामुना। विरुरुचे कलुषा जननी तथा विमविना भविनामथ मेदिना ॥८॥ विनयवादपरैर्गुरुशिक्षया प्रणतमौलिभिरन्वहमागतैः । सममसौ सुरलोककुमारकैररमतारमतामसमानसः ॥ ९॥ सचिवसैनिकदण्डधरानुगप्रभृतिराज्यपरिग्रहतागतैः । शुचिरसेव्यत दिव्यकुमारकैः परहितो रहितो हृदि मायया ॥ १० ॥ सदसि रत्नमयैर्नृपशेखरैर्मुहुरुदूढ इव प्रतिमागतः । अनुवदञ्जरतीजनताशिषः सह सता हसता गुरुणाहसत् ॥ ११ ॥ सकलमेव स वाङ्मयमात्मना सहजनिर्मलबुद्धिरबुध्यत । किमु विभाति पदार्थ इवान्यतः स्थिरविमा रविभा निशि दीपकः ॥१२॥
१. पदेऽरुणिमा. २. विस्तीर्णमुखपरिधिम्. ३. पूजनीयजनसंघम् । अनाकुल०. ४. मयूरेणः ५. समृद्धिमता; मयूरपक्षे-पक्षिण उत्पत्तिर्यस्य तेन. ६. कुमारकैः, अरमत, अरम्, अतामसमानसः.