________________
" काव्यमाला। कलितकान्तिविशेषशरीरया लसदलंकृतिलक्षणया गिरा। हृदयहारिपदक्रमया खयं विशदया स दयालुमना वृतः ॥ १३ ॥ उपरि सर्वजनस्य स विस्फुरन्प्रभुरथो महसामिव नायकः । भृशमभासत संभृतविग्रहो युवतया बत यादवपुंगवः ॥ १४ ॥ ... प्रसभमक्षविकारिणि यौवनव्यतिकरेऽपि गभीरिमगर्भितः । स विषयेषु विभुर्ववृतेतमामरसमो रसमोहविवर्जितः ॥ १५ ॥ सकलसिद्धिनिबन्धनमर्थवद्रुचिररूपतया मधुमित्रवत् । । स गुणरत्ननिधिददृशे जनैः शुचितया कृतया च यथा वृषः ॥१६॥ अथ विकासिकुशेशयलोचनस्तमवलोकयितुं कुतुकादिव । उपययौ मधुरर्पितकामिनीस्मरवशो रवशोभितकोकिलः ॥ १७ ॥ पथिकमानसकाननपावकस्मरमिव प्रतिबोधयितुं दधे ।' यमदिशा शिशिरात्ययतः स्फुरत्कमलयामलया मलयानिलः ॥ १८॥ कुसुमचापनृपायुधहर्म्यतानवहति स्म भृशं कतरद्वनम् । . मिथुनपानघटी शु(सु)भगीभवत्तरुतलं रुतलम्पटषट्पदम् ॥ १९ ॥ अपतुषारतया विमलत्विषा हिमकरेण सहेलमनीयत । मलयशैलभुवा मरुताभितो विचरता च रताकुलतां जगत् ॥ २० ॥ अपि तरुस्तिलकः पुलकं दलन्मुकुलराजिमिषादपुषत्तनौ । मृगहशीभिरवेक्षित एव तत्किर्मुदितो मुदितो न युवा जनः ॥ २१ ॥ रुचिरचन्दनराजिमृगीदृशां कमपि लास्यविधि दिशति स्म यः । अनिलमुज्ज्वलसौरभमाकुलास्तमलयो मलयोत्थितमन्वयुः ॥ २२ ॥ .. मृदुसमीरणघूर्णितविग्रहं किशलयारुणकान्तिमतर्कयत् । मदिरयेव वधूमुखदत्तया युवकुलं बकुलं मदविह्वलम् ॥ २३ ।।
१. वसन्तसखः कामः. २. उदयं गतः.