SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ६ सर्गः] नेमिनिर्वाणम् । वहति शैत्यममन्दगतिश्च खे विरहिदेहविदारणदारुणः। कुसुमचापनृपस्य जगजये विधुरितो धुरि तोमरतां ययौ ॥ २४ ॥ अमरधोरणिदर्शिततोरणैर्मधुमहोत्सववेश्मतुलां गतैः । प्रणयिनः प्रमदासु वितेनिरे कुरवकैरवकैतवमानसाः ॥ २५ ॥ निजकलत्रकुचाननमण्डलस्मृतिभवस्मरसंज्वरमध्वगैः। समभवन्सरितः पथि दुस्तराः सरसकोकसुकोकनदश्रियः ॥ २६ ॥ कुसुमबाणसितातपवारणाद्विचिकिलात्सुरभित्वजयश्रियम् । किमपि नो कुसुमेषु समाददे विदलितादलितानमनोहृतः ॥.२७ ॥ गिरिषु कन्दरकिन्नरकामिनीजनितगीतरवश्रवणादभूत् । .. हरिणधोरणिरुन्मदमानसा धृतिमिता तिमितायतलोचना ॥ २८ ॥ विशदचन्द्ररुचः स्फुटचम्पकप्रकरचारुदिशो मधुवासराः। ... विदधुरुन्मनसं न कमुत्कटस्मरबला खलालसकोकिलाः ॥ २९॥ मुहुरुदस्तपतद्वलयावलिः प्रवसता रमणेन तनुभृशम् । । अभिललाष समागममङ्गना न सह का सहकारविलोकिनी ॥ ३०॥ किशलयैः कुसुमैश्च निरन्तरैः प्रतिदिगन्तमशोकमहीरुहः । परिवृतः सहसा कमलेक्षणा क्रमहतो महतोरणसंनिभैः ॥ ३१ ॥ उपहृतैः स्वयमग्रिमसल्लकी किशलयप्रमुखैरनु निन्यिरे। अनुनदीतटमुत्कटमन्मथैर्द्विरदनैरँदनैर्निजवल्लभाः ॥ ३२ ॥ . शशिनि कौसुमतल्पतले जलेऽप्यनुपशान्तवपुर्दवथुव्यथा । अरतिमिष्टतमेन वधूश्चिरं विरहिता रहितारपिकीरवे ॥ ३३ ॥ - अनुनयन हृदः प्रमदामदं रहयति स्म मनागपि या पुरा । खयमगामि मधौ प्रियर्सनिधाविह तया हतया मदनेषुभिः ॥ ३४॥ १. दम्भरहितमानसाः, २. उत्सवतोरण. ३. अदनैर्भोज्यैः. -
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy