________________
काव्यमाला ।
मकरकेतुकलत्रमुखश्रियं यदवहत्सरसीषु सरोरुहम् । । अगमयन्मणिकुण्डलतां स्त्रियस्तदलसं दलसङ्गिशिलीमुखम् ॥ ३५ ॥ मधुरकूजितसूचितवल्लभागममहाय मुहुर्बलिभोजिने । करतलेन बलिदंददेतमामवलया वलयावलिवर्षिणा ॥ ३६ ॥ मृदुसमीरचलालकसंचया रणझुणन्मणिकिङ्किणिका मुहुः । ललितकेलिमसेवत दोलया रसमये समयेऽत्र न का वधूः ।। ३७ ।। बहलकिंशुकवीथिकया मधुस्त्रिय इवाधरपल्लवलीलया। . तनुरनीयत खेदमनिद्रिता रुचिरया चिरयातपति(ते) भृशम् ॥ ३८॥ अनुवनं मधुरध्वनिकोकिलाकलकले सति कर्णपथातिथौ। न पथिकः प्रमदां कतमस्तदा स्मरति ना रतिनायकनोदितः ॥ ३९ ।। उदितनिर्मलमण्डलचन्द्रमःकररसायनसेकगुणादिव । । क्षितिरुहः कुसुमैर्बभुरुदतैः शवलिता वलितात्मतनुश्रियः ॥ ४०॥ नवकुसुम्भकरम्बितमम्बरं समदना दधतीव निरक्ष्यत । विकच किंशुकवीथिकयोल्लसत्तरुणयारुणया वनमेदिनी ॥ ४१ ।। मधुरसातिशयं दधदुच्चकैरकृतचूततरुमधुपावलिम् । सततमात्मनि निश्चलसौहृदां भ्रमवतीमवतीर्णनवध्वनिम् ॥ ४२ ॥ कृतकुशेशयकोशविकाशया समदकोकिलयाथ मधुश्रिया। धवलपक्षविहंगततेः पतत्कुमुदया मुदयाप्यत चेतसः ॥ ४३ ॥ धवलधामनि निर्मलमूर्तितां खरविकखरतां पिकयोषितः। कृतवता मधुना विकृतिर्दधे प्रथयताथ यतात्मसु मन्मथम् ॥ ४४ ॥ तुहिनतानवमातपतीव्रतां विदधतः सुतरां मधुवासराः । विरहिणामतिदुःसहतां गताः सुगुरवो गुरैवोपचयं क्षपाः ॥ ४५ ॥
१. मदनो वृक्षविशेषश्च. २ 'तरुणं कुब्जवृक्षे ना रुचके यूनि तु त्रिषु'. ३. क्षीणताम्.