________________
५ सर्गः]
नेमिनिर्वाणम् । निधीयमानाः कलशा बभाषिरे सतामभक्तेः फलमाश्रयस्य च ॥ ५५॥ जयेति जल्पत्सु सुरेषु सादरं नटत्सु विद्याधरवर्गवल्गुषु । रसेन गायत्यपि चाप्सरोजने सरोजनेत्रे जिनराजमञ्जसा ॥ ५६ ॥ घनं ध्वनन्तः कलशाः पुरंदरप्रणोदिताः कान्तिवितानविद्युतः। तमभ्यषिञ्चन्नविलच्यमम्बुभिः पयोभृतो लोकमिवैकहेलया ॥ ५७ ॥
(युग्मम्) मृगारिपीठेन तमालनिर्मलप्रभावितानप्रभुसङ्गशोभिना। गुरुगिरीणां शिखरान्तरापरप्ररूढजम्बूशिखरीव सोऽभवत् ॥ ५८ ॥ जिनाभिषेकाम्बु पतच्छिलातले शनैरुरीकृत्य विसारि सौरभम् । समीरणैर्दिक्षु निचिक्षिपेतरां जगत्सु वाञ्छद्भिरिवेह शान्तिकम् ॥५९॥ घनैर्जिनस्नानविधानवारिभिर्बभूव गङ्गेति वितळते मया । न चेजलत्वे सरितां समेऽपि किं पवित्रता पात्रमियं विशेषतः ॥६०॥ तमीशमिष्टार्थसमर्पणक्षमं दधानमोजः सुकुमारसत्पदम् । महाकवेः काव्यमिवोज्ज्वलं ततो व्यधादलंकारमनोहरं हरिः ॥ ६१ ॥ वहन्महाधर्मरथस्य नेमितामरिष्टमुर्त्या विषमं निहन्त्यसौ । इति त्रिलोकीतिलकं समभ्यधादरिष्टनेमिध्वनिना सुराधिपः ॥ ६२ ।। अथ प्रभोरस्य पुरः पुरंदरः प्रमोदपूरादभिनृत्य कृत्यवित् । विधाय सेवाञ्जलिमुज्ज्वलाननस्ततान सत्यार्थम(व)तीमिति स्तुतिम् ६३ निहंसि निःशेषमशेषदेहिनां महेश सद्यःप्रभवोऽपि पातकम् । प्रपद्य भाखानुदयं प्रतीक्षते क्षणान्तरं न क्षणदातमःक्षये ॥ ६४ ॥ इदं तव क्षेत्रमवाप्य पावनं सुमानसस्य प्रगुणीकृतक्षमम् । सलीलमत्रास्खलितक्रमश्चरन्वृषश्चिरायोपचयं प्रपत्स्यते ॥ ६५ ॥ त्वदंशुभिः सिद्धमषीशलाकिकानिभैईशो यैर्जिनराज नाञ्जिताः।