Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
४१
७ सर्गः]
नेमिनिर्वाणम् । कान्तारभूमौ पिककामिनीनां कां तारवाचं क्षमते स्म सोढुम् । कान्ता रतेशेऽध्वनि वर्तमाने कान्तारविन्दस्य मधोः प्रवेशे ॥ ४६॥ जहुर्वसन्ते सरसीं न वारणा बभुः पिकानां मधुरा नवा रणाः । रसं न का मोहनकोविदार कं विलोकयन्ती बकुलान्विदारकम् ॥४७॥
मधुरेणदृशां चक्रे शशिना मानविप्लवम् ।
मधुरेण दृशां चके मन्मथज्वलितात्मनि ॥४८॥ ततिरतन्यत भीरुषु चाटवी युवभिराप्यत पुष्परुचाटवी । रुरुचिरे शिशिरात्ययचार वः शशिरुचोऽन्यभृतस्य स चारवः॥४९॥
दृष्ट्वा वसन्तमथ तं मधुपानवन्तं __ यूनां गणं विदधतं भैधुपानवन्तम् । याति स्म रैवतिकभूभृति यादवानां __ वर्गस्ततिं वहति रम्यतया देवानाम् ॥ ५० ॥ नेमिर्विशालनयनो नयनोदितश्री___रभ्रान्तबुद्धिविभवो विभवोऽथ भूयः । प्राप्तस्तदेति नगरान्नगराजि तत्र - सूतेन चारु जगदे जगदेकनाथः ॥ ५१ ॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये वसन्तवर्णन मम
षष्ठः सर्गः।
सप्तमः सर्गः। 'वृत्तं व्रजति न भङ्गं यदीयतत्त्वैकचेतसां विदुषाम् । जन्मभयास्तरसास्ते भान्त्येतस्मिन्गुणाः ख्याताः ॥ १ ॥
१. विदारकं निरपत्यं यथा स्यात्तथा। निरपत्यायाः संभोगक्षमत्वात्. २. मृगलोचनानाम्.. ३. भ्रमरान्पालयन्तम्. ४. मद्यम्. ५. वनानाम्. ६. विगतभवः. ७. जनमभयाः तरसा इत्यष्टौ गणाः.

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124