Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
काव्यमाला
उल्लसचिलकश्रीकं कर्णिकारचितोदयम् । . अशोकसुभगालोकमाबद्धनवौलिकम् ॥ ८॥ हेरिणाधिष्ठितं नित्यं चेतोहारियोधरम् ।। सत्पत्रवल्लिसच्छायं कोमलालतान्वितम् ॥९॥ रेम्भाभिरामं सततं स्फुरगुणकदम्बकम् । यादवीनां कुलं क्रीडावनं तत्र विवेश तत् ॥ १० ॥ क्षतमूलामपि नखैरुल्लसत्पाणिपल्लवाम् । दोर्लतां कमितुः स्कन्धे क्षिप्त्वा कापि ययौ वने ॥ ११ ॥ अन्तःपुरपुरन्ध्रीणां पुरध्वनिपूरितः । गिरौ निर्झरझात्कारचकार श्रवणोत्सवम् ॥ १२ ॥ विहरन्ती वने कापि संक्रान्तमदनग्रहा। ' नितम्बभारनिर्वेदं न विवेद मनागपि ॥ १३ ॥ अर्धान सजः साधुः कश्चिवप्रीणयप्रिये। संभावितायाः प्रथमं तथाप्यन्याकरोत्क्रुधम् ॥ १४ ॥ सौरभेण स्पशेनेव वञ्चितानामलिब्रजाः । वने कुसुमहर्तृणां लेगुः पृष्ठे मृगीदृशाम् ॥ १५॥ वर्णप्रसूनं गृहन्त्यो गृहिण्यः पृथिवीभृताम् ।
१. तिलको लुमविशेषः, विशेषकं च. २. कर्णिका + रचितोदयम्, कर्णिकार+ चितोदयम्. ३. अशोको वृक्षविशेषः, शोकाभावश्च. ४. माला, लताविशेषश्च. ५. हरिणा कृष्णेन, हरिणैश्च. ६. पयोधराः कूपादयः, सनाश्च. ७. समीचीनपत्रयुतलताभिः सच्छायम्, समीचीनेन कुङ्कुमरचितललाटभूषणेन शोभायुतम्. ८. कोमलायो लता, कोमला भलताच. ९. कदली, देवागनाविशेषश्च. १० स्फुर. दुमाः कदम्बा पत्र, स्फुरन् गुणकदम्बो यत्र इत्येवं यादवीकुलपक्षे. वनपक्षे यथायोग्यमों प्रायो नास्मलिखितक्रमेणैव. ११. प्रियाद्वयम्. १२. तालवृक्षविशेषाः..

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124