Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 28
________________ २४ 'काळमाला । चतुर्थः सर्गः। मौक्तिकेन शुचिकान्तिशोभिना गर्भवासनिभृतेन तेन सा । सिन्धुशुक्तिरिव शोभनीयता नीयते स वसुधेशचेतसः ॥१॥ भर्तुराप्तशुभगर्भसंभवा वंशमुन्नतमभूषयच्च सा । रत्नजालखचितायताश्चला निर्मलांशुकपताकिका यथा ॥ २ ॥ प्राप्य नम्रसुरमौलिनिर्गतं पारिजातकुसुमस्रजां रजः। . तजिनेन्द्रजननीपदाम्बुजद्वन्द्वमुज्ज्वलमजायताधिकम् ॥ ३ ॥ वीक्ष्य दिव्यजनमाननीयतां मन्यते स नरनाथयोषितः । किंकरैरपि कृतार्थतात्मनः किं पुनर्जनकसोदरादिभिः ॥ ४ ॥ . श्रीजिनस्य यशसा जगबहिः सर्पतेव वपुरन्तरस्थितेः । वासरैः कतिपयैर्नृपप्रिया प्राप पक्कशरपाण्डुरं वपुः ॥५॥ पाण्डिमाविरभवद्यथा यथा तत्तनौ पटुतरस्तथा तथा । स्पर्धयेव कुटिलालकावलीकालिमापि नितरामपासरत् ॥ ६ ॥ गर्भनिर्भरतनुं तदन्तरे प्राप्य वृद्धिमधिकां कुचद्वयम् । तामखेदयत को न नीयते वृद्धिभिः सहृदयोऽपि विक्रियाम् ॥ ७ ॥ येन विश्वहितहेतुमात्मजं पार्थिवस्य जनयिष्यति प्रिया । तेन कौतुकशकुन्तबन्धनत्याजनाय विततान दोहदम् ॥ ८॥ राजकुञ्जरमन प्रहर्षिणी चारुलोलकरदत्तवारिजा। .. गर्भमारभृशमन्थरां गतिं सा बभार करिणीव कानने ॥ ९ ॥ वोढुमक्षमवपुर्विभूषणं रत्ननिर्मितमपास्य सा दधौ । वर्णसंनिधिवितीर्णतत्पदं भूरिभडिकुसुमप्रसाधनम् ॥ १०॥ १. मुक्तिः प्रयोजनं यस्य तेन; मुक्ताफलेन च. -

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124