________________
२४
'काळमाला ।
चतुर्थः सर्गः। मौक्तिकेन शुचिकान्तिशोभिना गर्भवासनिभृतेन तेन सा । सिन्धुशुक्तिरिव शोभनीयता नीयते स वसुधेशचेतसः ॥१॥ भर्तुराप्तशुभगर्भसंभवा वंशमुन्नतमभूषयच्च सा । रत्नजालखचितायताश्चला निर्मलांशुकपताकिका यथा ॥ २ ॥ प्राप्य नम्रसुरमौलिनिर्गतं पारिजातकुसुमस्रजां रजः। . तजिनेन्द्रजननीपदाम्बुजद्वन्द्वमुज्ज्वलमजायताधिकम् ॥ ३ ॥ वीक्ष्य दिव्यजनमाननीयतां मन्यते स नरनाथयोषितः । किंकरैरपि कृतार्थतात्मनः किं पुनर्जनकसोदरादिभिः ॥ ४ ॥ . श्रीजिनस्य यशसा जगबहिः सर्पतेव वपुरन्तरस्थितेः । वासरैः कतिपयैर्नृपप्रिया प्राप पक्कशरपाण्डुरं वपुः ॥५॥ पाण्डिमाविरभवद्यथा यथा तत्तनौ पटुतरस्तथा तथा । स्पर्धयेव कुटिलालकावलीकालिमापि नितरामपासरत् ॥ ६ ॥ गर्भनिर्भरतनुं तदन्तरे प्राप्य वृद्धिमधिकां कुचद्वयम् । तामखेदयत को न नीयते वृद्धिभिः सहृदयोऽपि विक्रियाम् ॥ ७ ॥ येन विश्वहितहेतुमात्मजं पार्थिवस्य जनयिष्यति प्रिया । तेन कौतुकशकुन्तबन्धनत्याजनाय विततान दोहदम् ॥ ८॥ राजकुञ्जरमन प्रहर्षिणी चारुलोलकरदत्तवारिजा। .. गर्भमारभृशमन्थरां गतिं सा बभार करिणीव कानने ॥ ९ ॥ वोढुमक्षमवपुर्विभूषणं रत्ननिर्मितमपास्य सा दधौ । वर्णसंनिधिवितीर्णतत्पदं भूरिभडिकुसुमप्रसाधनम् ॥ १०॥
१. मुक्तिः प्रयोजनं यस्य तेन; मुक्ताफलेन च.
-