SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ४ सर्गः] नेमिनिर्वाणम् । यामियेष समये महीपतिस्तत्र पुंसवनकादिकां क्रियाम् । .. तामुपेत्य सह नाकिनां गणैर्वासवेन विहितामुदैवत ॥ ११ ॥ वज्रवहिविरहेण हारिणी तत्र संततमदुर्दिनोदया। रत्नवृष्टिरजनिष्ट मन्दिरे पार्थिवस्य नवमासवर्तिनी ॥ १२ ॥ शुक्लपक्षभवषष्ठवासरे साथ मासि नभसि प्रसर्पति । नन्दनं सकललोकनन्दनं सक्रियेव सुषुवे समीहितम् ॥ १३ ॥ तेन संनिधिगतेन सुन्दरी सद्य एव तलिनोदरी बभौ । वारिवाहशकलेन कज्जलश्यामलेन शशिनः कला यथा ॥ १४ ॥ तस्य जन्मदिवसे दिवौकसां दूरदीपितमहामहे मुहुः । प्राप्य काममपरागतामयं वायुरेव किल मन्दतां गतः ॥ १५ ॥ कल्पवासिगृहनादिघण्टिकादत्तमत्तगजचारसंभ्रमैः । भूरिकेसरिकिशोरकैद्ध्वं ज्योतिषां जगति गर्जितं दधे ॥ १६ ॥ भावनीयभवनेषु संभवन्व्याप विश्वमपि शङ्खनिखनः । जन्तुजातमिव याचितुं तदा पारितोषिकममुष्य जन्मनि ॥ १७ ॥ दूरमुल्लसितपूरहारिणा सागरेण गुरुवीचिबाहुभिः । नृत्यता सफलतामनीयत व्यन्तरामरगृहानकध्वनिः ॥ १८॥ इन्द्रनीलमणिभेदशोभिना कायकान्तिपटलेन वेष्टितः । धर्मरश्मितनयाहूदान्तरस्थायिकालियतुलामुवाह सः ॥ १९॥ विश्वनाथमभिषेक्तुमेष्यतां वीक्षणार्थमिव नाकिनां श्रियः। तुल्यकालमृतवः समारुहन्भूरुहेषु धनपुष्पभारिषु ॥ २० ॥ पुष्पपल्लवफलौघशालिनः सद्य एव वसतिद्रुमास्तदा । .... दिक्प्रचारविनिवर्तिभिर्विभिः काननेषु परिजज्ञिरे चिरात् ॥ २१ ॥ १. रागशून्यतां परागन्यताम्. --
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy