________________
२६
काव्यमाला।
पुत्रजन्म पुरुषाय कथ्यते श्रीसमुद्रविजयः प्रसत्तिभाक् ।' भूमिपत्वमदिशन्न दुर्वहं तत्फलं नु विततार कोमलम् ॥ २२ ।। तस्य जन्मभवने प्रबोधिताः सप्त मङ्गलमयस्य दीपकाः । आगता इव दिवो महर्षयः सेवनार्थमभुरद्भुतप्रभाः ॥ २३ ॥ राजमानमृगदूर्वमैन्दवं बिम्बमंशुचयचन्दनाञ्चितम् । तस्य कर्तुमिव मङ्गलक्रियां द्यौरुवाह कलधौतभाजनम् ॥ २४ ॥ सप्रसादमुखसुन्दरश्रियः पुष्पवृष्टिसुरभीकृता दिशः। विश्वमानसविलोभनक्षमाः पण्ययोषित इवावभासिरे ॥ २५ ।। दुनिमित्तविषवारणौषधेस्तस्य विष्वगुदये जगत्प्रभोः। कौतुकं ददृशिरेतरां जनैः केतवः प्रतिगृहं यदुद्धृताः ॥ २६ ॥ प्राप्य संगममनेन भाखता भूरियं भवतु हन्त हर्षिणी । चित्रमेतद्रतिदूरमुज्झितं यज्जयन्तमपि सोत्सवं तथा ॥ २७ ॥ गूढविष्टपविभुप्रभावतः कम्पमापदथ वासवासनम् । केलिलोभशफराहतिस्फुरन्नालदण्डमिव हेमपङ्कजम् ॥ २८ ॥ आत्मपीठपरिकम्पकारणं संप्रधार्य च समाधिवर्त्मना । संचचाल बलसूदनस्तदा तीर्थनाथमभिषेक्तुमादृतः ॥ २९॥ . तत्क्षणप्रहतदिव्यदुन्दुभिश्रव्यनादविहितोपहूतयः ।। खखवाहनजुषोऽथ मन्दिरद्वारमस्य रुरुधुः सुधाभुजः ॥ ३० ॥ वेत्रभृन्महिषमास्थितं पुरो दण्डपाणिमशिवावलोकनम् । क्रामतः कनकतोरणाबहिर्भर्तुरीक्षणपथादपाकरोत् ॥ ३१ ॥ . अप्सरोमिरमितोऽपि मङ्गलं गीयमानमुपकर्णयन्मृगः । मीलिताक्षमपथेन संचलन्बाधते म पवनं मुहुर्मुहुः ॥ ३२ ॥..,