Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 33
________________ ५ सर्गः] नेमिनिर्वाणम् । एतदुल्लसितसान्द्रपल्लवच्छन्नविद्रुमलतावलम्बितम् । भाति वेतसवनं करालितं वाडवेन शिखिनेव सर्वतः ॥ ५५ ॥ मुक्तसंख्यतमशङ्खसंकुलैरुल्लसद्भिरतिदूरमूर्मिभिः। । अन्तिकाच्छबिसकण्ठिकाकुलं मेघमण्डलमधः करोत्यसौ ॥ ५६ ॥ मौलिरत्नरुचिसंचयाञ्चिताः श्यामलाः पयसि पश्य बिभ्रते। संचरच्चतुरवारिदेवतावेणिविभ्रमममी भुजंगमाः ॥ ५७ ॥ फेनपिण्डकृतसंशयाम्बुधे राजहंसततिरन्तिकस्थिता । आननैश्च चरणैश्च लोहितैर्व्यज्यते विकचपद्मलोचने ॥ ५८ ।। दृश्यमानसततायतभ्रमं नादपूरितदिगन्तमुच्चकैः । अस्य वारि मुहुरुल्लसत्यदस्तप्यमानमिव वाडवामिना ॥ ५९ ॥ तन्वतः प्लवमुदन्वतः क्षितेरियद्भिरिव मातुरापदम् । क्षमारुहेरतितरां निरन्तरैस्तीरमस्य परिरुद्धमुद्धलैः ॥ ६०॥ तत्पूर्वदर्शनस्तस्यास्तूयमानो मरुत्वता । चक्रेऽथ मनसः प्रीतिमम्बुधिर्बहुकौतुकः ॥ ६१ ॥ अथ जिनपतिपादद्वन्द्वसंदर्शनोत्कः प्रथितपरमवेगैर्वाहनैर्वाहिताध्वा । विरहमसहमानामागतां तां पुरस्ता त्पुरममरसमूहः खामिव प्राप सद्यः ।। ६२॥ इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये देवागमो नाम चतुर्थः सर्गः। १. अतिशयेन मुक्तसंख्याः .

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124