Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 35
________________ ५ सर्गः] नेमिनिर्वाणम् । अवापुरैरावतदानसौरभभ्रमत्प्रभूतभ्रमरालि विभ्रमम् ॥ १२ ॥ सुरेषु यो यत्र विचित्रकौशलः स तेन विज्ञातगुणेन विस्फुरन् । पुरः प्रभोरस्य निरस्य मानितां ननर्त वादित्रमवादयज्जगौ ॥ १३ ॥ पुरंदरस्याथ पुरःसरैः सुरैरुदीरिते निर्भरदुन्दुभिध्वनौ । प्रतिध्वनन्तः प्रतिवेलमुच्चकैः कृताट्टहासा इव रेजुरद्रयः ॥ १४ ॥ प्रभावमत्यद्भुतमस्य पश्यतां दिवौकसां दिव्यमृगीदृशामपि । स्तवेन पित्रोर्जगतः पवित्रयोर्मुखानि शश्वन्मुखराणि जज्ञिरे ॥ १५ ॥ ददर्श मेरुं मरुतां पतिस्ततः समन्ततः शृङ्गनिषङ्गिवारिदम् । प्रभञ्जनाभावनिवृत्तवेपथुं सकज्जलोल्लासमिव प्रदीपकम् ॥ १६ ॥ अजस्रमासन्नसहस्रदीधितिप्रतापसंपादितखेदजन्मभिः । विसारिभिः खेदजलैरिवोज्ज्वलैर्विराजमानावयवं नदीशतैः ॥ १७ ॥ पयोधरैरञ्चितमेकतः सितैः सितेतैरैः काञ्चनकायमन्यतः । पितामहं धूर्जटिकैटभाहितप्रदत्तसंश्लेषमिवैकहेलया ॥ १८ ॥ रवेरधः सानुपतत्पताकिनः करावलीमुन्मुखतामुपेयुषीम् । निरुन्धतो बिभ्रतमङ्घ्रिपानुपर्यवस्थितानामपि वारितातपान् ॥ १९ ॥ पिशङ्गितास्तीरतरुप्रसूनजैः परागपांशुप्रकरैः प्रपातिभिः । दवानलो तापविलीनकाञ्चनप्रवाहकल्पाः कलयन्तमापगाः ॥ २० ॥ अदश्रदर्भाञ्चितमेखलाभुवं देरीमुखोला सिहरिध्वनिं मुहुः । सरित्प्रवाहै रुपवी तहारिभिर्विडम्बित श्रोत्रिय पौरुषाकृतिम् ॥ २१ ॥ विलासवेश्मोपमहेमकन्दरं मनोहरोद्यानसमानकाननम् । महौषधीगन्धनिषिद्धपन्नगं नगोद्भवादी नविहीनविग्रहम् (१) ॥ २२ ॥ अमान्तमन्तर्जगतः प्रभाषतेर्गभस्तिसंतानमिवोपपिण्डितम् । निविष्टनक्षत्रसहस्रमौक्तिकं वसुंधराया इव हेमशेखरम् ॥ २३ ॥ १. 'दरीतुल्यं मुखम् । हरिर्नारायणः' इति टीप्पणी. ३१

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124