Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji
View full book text
________________
४ सर्गः] नेमिनिर्वाणम् ।
२७ धर्मवारणमभूदभीशुमन्मण्डलादुपरि चारिणां श्रिये । आतपः पुनरधो निजैनिजैर्वाहनदिविस(ष)दामवार्यतः ॥ ३३ ॥ गाढमग्रगतिनिःसहक्रमाः क्वापि देवकरिणो नु मारुतम् । मेघराजिभिरुदूढविग्रहा एव सैन्यसहचारिणोऽभवन् ॥ ३४ ॥ संभृतं जलधरैः क्वचित्पुरो भूरिकान्ति विरराज कार्मुकम् । व्योमवर्त्मनि विहारिणो हरेमङ्गलार्थमिव रत्नतोरणम् ॥ ३५ ॥ पाणिभिर्निजविमानजालकप्रेषितैरमरयोषित. सुखम् । तुङ्गतुङ्गगिरिशृङ्गकाननक्षमारुहेषु कुसुमोच्चयं व्यधुः ।। ३६ ॥ मार्गरोधिनि पयोधरोत्करे दारिते सुरकरेणुभिः पुरः । नाभजन्त रथवाजिनः कचित्रोच्चनीचपथचारदुःखिताम् ॥ ३७॥ . रत्नसंभृतविशालकुक्षिभिर्लम्बमानविमलाम्बरध्वजैः। चञ्चलैः प्रवहणायितं नभः सागरे सुरविमानमण्डलैः ॥ ३८ ॥ भानुसंनिहिततापविक्लवः फेनिलेन वदनेन सैरिभः । दूरमंन्वतत याम्यदिक्पतेनिःसरच्छविफलाङ्करं धनम् ॥ ३९ ॥ नीचनीतनिभृतेभकुम्भयोय॑स्तमस्तकमनस्ततेजसः । वासवोऽभिमुखचारिणः कचिच्चारुचारणमुनीनवन्दत ॥ ४० ॥ व्योमलङ्घनभुवः श्रमाद्गलद्वाजिफेनलवलाञ्छितैर्घनैः । प्राप्यते स्म पवनप्रणोदितैश्चित्रचञ्चलचमूरुचारुता ॥ ११ ॥ वामदक्षिणपुरोनुवर्तिनां नाकिनां नभसि पाकशासनः । आततान निचयेन चक्षुषां तुल्यकालमवलोकसस्क्रियाम् ॥ ४२ ॥ छत्रपङ्कजवनेन कर्दमश्रीरकारि पटलैः पयोमुचाम् । तेन तस्य तु समीपवर्तिना बद्धमण्डलबलाकिकारुचिः ॥ ४३ ॥... अप्सरःसु करकङ्कणार्पितश्रीषु वाहनकरेणुकासु च ।

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124