Book Title: Neminirvanam
Author(s): Vagbhatt Mahakavi, Vagbhatt Mahakavi
Publisher: Pandurang Javji

View full book text
Previous | Next

Page 17
________________ २ सर्गः ] नेमिनिर्वाणम् । रणज्झणन्मणिमयकङ्कणोत्करैः करैरुदीरितजयजल्पितैरिव । उदक्षिपत्क्षितिपकलत्रपार्श्वयोः प्रकीर्णके मुहुरमराङ्गनाजनः ॥ ३६ ॥ यदेव सा मनसि समीहितं दधे सुराङ्गनास्तदविदुरात्मशक्तितः । नृपप्रिया न कमपि तेन कर्मणां प्रवृत्तये वचनपरिश्रमं ययौ ॥ ३७ ॥ जगत्रयीयुवतिषु देवि केवलं गरीयसी त्वमसि गुणैरनुत्तरैः । इमामिति प्रथितसदर्थगीतयो विकखरैर्जगुरथ काश्चन खैरैः ॥ ३८ ॥ कृतास्पदं महति नितम्बमण्डले प्रियं कृता प्रियमिव नर्तितेक्षणा । मृगेक्षणा क्षणमथ कापि पाणिना पटीयसी पटहमताडयत्तराम् ॥ ३९ ॥ स्फुटीभवन्नवरसनीरनिर्झरैरिवापरा विरचितलास्यविभ्रमा । अमिक्रियात्रुटदुरुहारनिर्गतैः सभाजनं मणिनिकरैरपूजयत् ॥ ४० ॥ कयापि वाग्विरचितचातुरीभृता समीरितान्युपचितरोमहर्षया । भवान्तरे कृतसुकृतानि शृण्वती मुमोच सा निजविभवेषु विस्मयम् ॥ ४१ ॥ दधानया धृतनवरागमम्बरं विभावरीमिव ननु संध्यया शशी । कयापि तामभि मणिदर्पणो दधे प्रसाधनेक्षण विधये प्रतिक्षणम् ॥ ४२ ॥ कृतादराः क्षितिपकलत्ररक्षणे करस्थितैरसिभिरमर्त्ययोषितः । मनोहृतो भृशमभजन्त भीमतां भुजंगमैर्मल्यरुहो लता इव ॥ ४३ ॥ पेरिस्फुरद्रुचिरपरागहारिणीं खजं नवां सुकृतपरम्परामिव । सुराङ्गना नृपतिमृगीदृशो मुदे दिनं दिनं प्रति विततान काचन ॥ ४४ ॥ सुधाभुजां युवतिभिरेवमादरादुपासिता समजनि सा सुरीतिभिः । गुणैर्युतं वपुरपदोषमीयुषी महाकवेरिव विमला सरखती ॥ ४५ ॥ अथैकदा त्रिदशविलासिनीजनप्रवर्तिताद्भुतजिनधर्मसंकथा । १३ १. स्रक्पक्षे - द्वितीयान्तमेकं पदम् सुकृतपरम्परापक्षे - परिस्फुरद्रुचिः सुराङ्गना अपरागहारिणीं वैराग्यशोभिनीं सुकृतपरम्पराम्.

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124