________________
२ सर्गः ]
नेमिनिर्वाणम् ।
रणज्झणन्मणिमयकङ्कणोत्करैः करैरुदीरितजयजल्पितैरिव । उदक्षिपत्क्षितिपकलत्रपार्श्वयोः प्रकीर्णके मुहुरमराङ्गनाजनः ॥ ३६ ॥ यदेव सा मनसि समीहितं दधे सुराङ्गनास्तदविदुरात्मशक्तितः । नृपप्रिया न कमपि तेन कर्मणां प्रवृत्तये वचनपरिश्रमं ययौ ॥ ३७ ॥ जगत्रयीयुवतिषु देवि केवलं गरीयसी त्वमसि गुणैरनुत्तरैः । इमामिति प्रथितसदर्थगीतयो विकखरैर्जगुरथ काश्चन खैरैः ॥ ३८ ॥ कृतास्पदं महति नितम्बमण्डले प्रियं कृता प्रियमिव नर्तितेक्षणा । मृगेक्षणा क्षणमथ कापि पाणिना पटीयसी पटहमताडयत्तराम् ॥ ३९ ॥ स्फुटीभवन्नवरसनीरनिर्झरैरिवापरा विरचितलास्यविभ्रमा । अमिक्रियात्रुटदुरुहारनिर्गतैः सभाजनं मणिनिकरैरपूजयत् ॥ ४० ॥ कयापि वाग्विरचितचातुरीभृता समीरितान्युपचितरोमहर्षया । भवान्तरे कृतसुकृतानि शृण्वती मुमोच सा निजविभवेषु विस्मयम् ॥ ४१ ॥ दधानया धृतनवरागमम्बरं विभावरीमिव ननु संध्यया शशी । कयापि तामभि मणिदर्पणो दधे प्रसाधनेक्षण विधये प्रतिक्षणम् ॥ ४२ ॥ कृतादराः क्षितिपकलत्ररक्षणे करस्थितैरसिभिरमर्त्ययोषितः । मनोहृतो भृशमभजन्त भीमतां भुजंगमैर्मल्यरुहो लता इव ॥ ४३ ॥ पेरिस्फुरद्रुचिरपरागहारिणीं खजं नवां सुकृतपरम्परामिव । सुराङ्गना नृपतिमृगीदृशो मुदे दिनं दिनं प्रति विततान काचन ॥ ४४ ॥ सुधाभुजां युवतिभिरेवमादरादुपासिता समजनि सा सुरीतिभिः । गुणैर्युतं वपुरपदोषमीयुषी महाकवेरिव विमला सरखती ॥ ४५ ॥ अथैकदा त्रिदशविलासिनीजनप्रवर्तिताद्भुतजिनधर्मसंकथा ।
१३
१. स्रक्पक्षे - द्वितीयान्तमेकं पदम् सुकृतपरम्परापक्षे - परिस्फुरद्रुचिः सुराङ्गना अपरागहारिणीं वैराग्यशोभिनीं सुकृतपरम्पराम्.