________________
; काव्यमाला। इतः परं गतवति चार्धवत्सरे जिनान्तरं मुनिभिरितीरितं हरेः ॥ २५॥ शिवाभिधां दधति पवित्रविग्रहे परिग्रहेऽम्बुधिविजयस्य भूपतेः । जगत्रयप्रगुणितधर्ममङ्गलो भविष्यति प्रभुरिह नेमिरात्मजः ॥ २६ ॥ सुरेश्वरः स्मरणसमागतं ततः कृताञ्जलिं जनमिममेकहेलया। । । शिवां नभःसरितमिवातिपावनीमुपासितुं तव महिषीं समादिशत्॥२७॥ इति क्षितेरधिपनिशान्तवर्तिनीं त्वदाज्ञया त्रिभुवननाथमातरम् ।। निषेवितुं परिणतपुण्यसंहतिः समीहते हरिहयकिंकरीजनः ॥ २८॥ प्रजल्पितां जलरुहहर्म्यया गिरं निशम्य तां स तनयचिन्तयोज्झितः । प्रभुर्भुवः सपदि बभूव भासुरः प्रभापतिर्जलधरलेखया यथा ॥ २९ ॥ घनानभिप्रकटितरागयोगया प्रबाधितुं जिनवृजिनानि. संध्यया । सतीव्रतग्रहपरयेव संश्रितां नखप्रभापटलमिषेण पादयोः ॥ ३० ॥.. दुरुद्वहस्तनयुगभारधारणश्रमागमादिव तनुमध्यदेशया । परिष्कृतामनुकृतकल्पशाखया प्रभावतस्तनुलतया पवित्रया ॥ ३१ ॥ वितन्वतीमधरदलस्य तेजसा विसारिणा हसितरुचां चयेन च । कपोलयोर्मुगमदपत्रवल्लरी सपल्लवां सकुसुमसंगमामिव ॥ ३२ ॥ नृपाज्ञया तदनु निशान्तमन्तरा प्रवेशिताः सविनयसौविदल्लकैः । विलोक्य ताममरचकोरचक्षुषः खचारुतामदपरिहारमावहन् ॥ ३३॥
(कुलकम्) महीतलावतरणकारणे निजे निवेदिते प्रणतिविधानपूर्वकम् । नृपप्रियामतिमुदितामुपासितुं प्रचक्रमे सुरपुरसुन्दरीजनः ।। ३४ ॥ दधानया मरकतधर्मवारणं कयापि सा सकनकदण्डमाबभौ । .. स्थिराचिरद्युतिलतमब्दमण्डलं नमःश्रिया दिगिव दिवौकसां स्त्रिया ३५
१. हरेरिन्द्रस्य. २. समुद्रविजयस्य.