SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ २ सर्गः] नैमिनिर्वाणम् । ११ हृतां जवादपहृतदैत्यजीवितः पुरूरवाः किमु न समानयन्नृपः ॥ १४ ॥ बिभर्ति यः शिखरनिवेशसुस्थितां नभःसदां पदममरावतीं पुरीम् । सुराचलं कलयति तं वसुंधरा धृता सती नरपतिबाहुविक्रमैः ॥ १५ ॥ वसुंधराधिपतिममर्त्यजातितो विलक्षणं न खलु पुराविदो विदुः । अमानवैः कलिततनुः पराक्रमैर्विभिद्यते नरवपुषा स केवलम् ॥ १६ ॥ तमश्वये महति निमज्जतः सतो जनस्य सत्पथपरिदर्शनं दिशन् । दिगन्तरप्रथितरथाश्वसंचरः प्रभाकरो भवति नरेश्वरः स्फुटम् ॥ १७ ॥ दधद्धनुर्धनरवराजितं कृती कृतार्थयञ्जनमिह कामवृष्टिभिः । परिक्षतक्षितिघरपक्षसंततिः पुरंदरात्किमपि न हीयते नृपः ॥ १८ ॥ यदाज्ञया स्खलितमिदं न लङ्घते निजं निजं जगदवधिं कदाचन । तयोः समप्रकटितदण्डचण्डयोः किमन्तरं नरपतिधर्मराजयोः ॥ १९ ॥ निरागसाममृतसमानसंगमः कृतैनसां प्रकटितदाहडम्बरः । हुताशनः क्षणमधिवासितो यथा तथा नृपः सहजगुणेन वर्तते ॥ २० ॥ चतुर्दिगस्खलितजवप्रचारिणं विना न यं प्रभवति जीवितुं जगत् । स भूपतिः कृतशुचिमित्र संगतिर्महाबलः कथय कथं न कथ्यते ॥ २१ ॥ वनीपकानभिलषितेन योजयन्ननेकधा विरचितकोशसंचयः । नराधिपः कथमिव नाभिधेयतां प्रपद्यते धनदधनेश संज्ञयोः ॥ २२ ॥ वचोऽथवा प्रकृतिवशादनुद्धतं महात्मनामलघुतरक्रियाकृते । महीरुहामिव कुसुमं महीयसे प्रकल्पते प्रतनु फलाय निश्चितम् ॥ २३ ॥ भवादृशामकुशविभावसद्मनामियं च मे चरितकथासु धृष्टता । तदस्मदागमननिमित्तमुत्तम क्षमाभृतामवहितमानसः शृणु ॥ २४ ॥ शेरद्दलव्यपगतपञ्चलक्षकाः समा ययुर्नमिजिनर | जतीर्थतः । १. शरद्दन हायनार्धेन षण्मासेन.
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy