________________
काव्यमाला।
वितन्वतीर्वियति विराजिमिर्मुखैविभावरी विभुनिकुरुम्बडम्बरम् । विवृण्वतीरिव मणिकिङ्किणीरवं स्मरद्विपं सहचरमात्मनः स्फुटम् ॥ ३॥ सुरद्रुमप्रसवसमूहशेखराण्युपर्युपर्यलिवलयैर्विसर्पिभिः। परिस्फुरन्मरकतरत्ननिर्मितैर्विराजिता इव नवधर्मवारणैः ॥ ४॥ समन्मथं प्रथितभुजावलम्बनैर्दिनेश्वरैः खयमिव रत्नकङ्कणैः । मुखप्रभापटलजलभ्रमायितैः कृतश्रियः कनकमयैश्च कुण्डलैः ॥ ५॥ कुचस्थलीनिबिडनितम्बमण्डलीभरादिव त्वरितमधश्चरिष्णवः । । विभूतिभिर्विरचितविस्मयां तदा] क्षणेन ताः क्षितिपसभामवातरन् ॥६॥ उपेत्य च क्षितिपसमीपमुज्ज्वलद्विजप्रभापटपिहितक्षताधरा । . समुद्यतैः कियदपि दक्षिणैः करैर्जयेति ताः सममुदचीचरन्वचः ।। ७ ॥ महीपतेरनुपमरूपसंपदा सविस्मया इव विनिमेषलोचनाः । सिषेविरे सरभसकिंकरार्पितान्यनुक्रमं कनकमयासनानि ताः ॥ ८॥ अथोच्चकैरमरमहीध्रकन्दरां निनादयन्हरिरिव रत्नसंसदम् । गभीरया गुरुरवनिर्भृतां गिरा नभश्चरीनिकरमसावभाषत ॥ ९॥ समीहया सह भवदिष्टसंपदा पुरंदरादभयमुपेयुषां सदा । नभःसदां न खलु नृपैः प्रयोजनं प्रतन्यते किमपि कदापि यद्यपि ॥१०॥ विधीयतां किमिति तथापि जल्पते भवादृशे सदनमुपागते जने । प्रयोजनं खमिदमहो यदर्थ्यते निदेशनाधिगमनिमित्तमुत्तमः ॥११॥ नरेश्वरे गिरमिति गर्जिगौरवामुदीरयत्युदयपरम्परास्पदे । गरीयसी युवतिषु तासु जल्पितुं प्रचक्रमे कमलनिकेतवासिनी ॥ १२॥ न युज्यते नरवर वक्तुमीदृशं वचस्तव त्रिदशकलाशरीरिणः । महीपतिर्दशमुखदारणादिवो भयज्वरं किमु न जहार राघवः ॥ १३ ॥ दिवस्पतेर्विजययशःपताकिकां किलोवंशीमसुरवरेण केशिना ।