SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ १ सर्गः] नेमिनिर्वाणम् । उन्मूलयन्यस्तरुयुग्ममुच्चैर्महाबलत्वं जगति प्रपेदे ॥ ७८॥ . गोवर्धनोभृिति येन दोर्ध्यामभ्युद्धृते भूतलमापतन्त्यः। । आरोहणार्थ स्फटिकावनद्धसोपानशोभा सरितो वितेनुः ॥ ७९ ॥ रक्तेन लिप्तः करवज्रपातवान्तेन यः केशिकिशोरकस्य । दावामिधूमः स मया महीन्ध्रज्वालाभिराश्लिष्ट इवावभासे ॥ ८०॥ यशोदयानन्दसमीहयालं प्रवर्धितात्मा विदधद्विभूतिम् । रणे च दाने च विशालशक्तिनिष्कं सतां यः प्रथयांचकार ॥ ८१॥ .. तेनाथ निर्मथितदानवनाथधाम्ना श्रीमांल्लघूकृतमहीतलभूरिभारः। राजा समुद्रविजयः सुतलाभहेतोः ___ किं तन्न यद्तमसौ चिरमाचचार ॥ ८२ ॥ द्विरदकरजलाद्वारमाचारनम्र क्षितिपललितहारस्वस्तिकैः खस्तियुक्तम् । तरलतनयशून्यप्राङ्गणं वीक्षमाणो भवनमवनिनाथः काननं सोऽथ मेने ॥ ८३ ॥ - इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये पुत्रचिन्ताभिधानो नाम. प्रथमः सर्गः। द्वितीयः सर्गः। अथैकदा सदसि दिगन्तरागतैरुपासितः क्षितिपतिभिर्महीपतिः।। नभस्तलादवनितलानुसारिणीः सुराजनाः स किल ददर्श विस्मितः॥१॥ निरम्बुदे. नभसि नु विद्युतः क्वचिन्नु तारकाः प्रकटितकान्तयो दिवा । सविस्मयैरिति नितरां जनैर्मुहुर्विलोकिताः पथि पथि बद्धमण्डलैः ॥२॥
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy