SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | शून्ये यदीयारिपुरे पुरारेर्धाम्नः पुरोवाहमवेत्य सत्यम् । उत्कर्णिताः संभृतहुंकृताश्च जिह्वाञ्चलैरुल्लिलिहुश्चमर्यः ॥ ६८ ॥ आहारदानान्यखिलानि यच्छन्नजायताक्षीरकृतार्थितार्थी । यो दीनवत्वे सुरलोकभक्तः को बुध्यते राजगतिं विचित्राम् ॥ ६९ ॥ उरःप्रहारत्रुटितोरुहारमुक्ताफलैर्वैरिविलासिनीनाम् । पेते क्षितौ यन्नवकीर्तिवल्ली बीजैरिवाप्लवपक्किलायाम् ॥ ७० ॥ वसुंधरां धारयतः खधर्मे यस्योरुदोश्चण्डिममण्डनस्य । कलौ कदाचिन्न किलाभिमुख्यं भेजे दुराचार इवारिवर्गः ॥ ७१ ॥ न केवलं यत्पदपीठसङ्गादानम्रचूडामणयो नृपाणाम् । भूरी (१) बभारानतभूमिगोलदोलापि तैर्व्यालपतेश्च धृष्टाः ॥ ७२ ॥ अथात्मजं श्रीवसुदेवनाम्नः खभ्रातुरत्यद्भुतभक्तिभाजः । निवेशयामास स यौवराज्ये गोविन्दमानन्दितदेववृन्दम् ॥ ७३ ॥ समुच्छलत्कज्जल कोमलश्रीस्तत्कालजन्मा यमुनाप्रवाहम् । चिच्छेद यो दीप इव प्रभावांस्तमः समूहं सुदशोपगूढः ॥ ७४ ॥ कथं यथावन्ननु चक्रपाणेर्निरुच्यते तस्य चरित्रमत्र । वधोद्यतायाः किल पूतनाया यः पीतरक्तोऽपि बभूव कालः ॥ ७५ ॥ प्रकोपतः कण्टकितप्रकीर्णरत्नप्रभाकेशरभासुरास्यम् । यः केलिनीलोत्पलवत्कलिन्दकन्याहृदात्कालियमाचकर्ष ॥ ७६ ॥ विध्वस्तबन्धं त्रुटिताङ्गसंधिं दलद्विशालाक्षमुदस्तपादम् । यथा शिशुत्वे शकटं तथा यश्चाणूरमल्लं दलयांचकार ॥ ७७ ॥ रम्यां जनानन्दकरीं दधानः श्रियं सदा सौरभसं प्रपन्नः । १. 'न क्षीरेण पायसेन' इति विरोधः, 'अक्ष्णः प्रेरणेन' इति परिहारः. २. दानित्वे, दनुजत्वे. ३. वर्णपरत्वेन विरोधः, अन्यार्थत्वेन परिहारः,
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy