________________
काव्यमाला। ददर्श सा सुखशयिता सती सती क्षफंपरिक्षयसमये क्रमादिदम्॥ ४६॥ समुल्लसत्पृथुतरदानवारणं दिशां गजैः सह दंधतं शिवारणम् । कपोलयोः श्रवणकृतालिवारणं गृहाङ्गणस्थितममरेशवारणम् ॥ १७॥ समायतप्रकटितपुच्छनिर्भरं घनारवैर्मुखरितसर्वदिङ्मुखम् । चलाचलं सुरुचिरकाननश्रियं हिमक्षमाधरमिव सार्षभेश्वरम् ॥ १८ ॥ विपाटितद्विपपतिरक्तपाटलैर्नखाशैः कुटिलकठोरकोटिभिः । मनोहरं गुरुगिरिगहरे हरिं त्रिपत्रक तरुमिह कोरकोत्करैः ॥ १९ ॥ श्रियं दलज्जलरुहतल्पकल्पितस्थितिक्रियामिलितरजश्चयादिव । तडिल्लताललितशरीररोचिषं विभूषितां द्युतिभरभव्यभूषणैः ॥ ५० ॥ गुणाश्रयाः सुमनस इत्यसंशयं निवेदयन्मधुरमधुव्रतारवैः । पुरो महाफलजननाय योग्यतां गतं मुहुः सुरकुसुमस्रजोर्युगम् ॥ ५१॥ करोत्करं दधतमखण्डमण्डलं निशाकरं नभसि कुरङ्गसंगतम् । सषट्पदं महति कदम्बपादपे प्रसूनकं मवमिव चारुकेसरम् ॥ १२ ॥ प्रसर्पता तिमिरनृपेण सर्वतो नभः शिलातललिखितां प्रशस्तिवत् । करोत्करैः कुपितमिवोडमण्डलीं तमोरिपुं विरमयितारमम्बरे ॥ ५३॥ पयोधृति प्रगुणशरीरशोभनं तिमिद्वयं कलशयुगं च काञ्चनम् । सरोवरं कुवलयनुप्तभूषणं तरङ्गिणीपतिमपि विद्रुमाश्चितम् ॥ ५४॥ जपारुणैः किसलयितां तमेकतः सुधासितैः कुसुमितकायमन्यतः । मणिव्रजैर्मधुकरितं सितेतरैः समुन्नतं तरुमिव सिंहविष्टरम् ॥ ५५॥ रणज्झणन्मणिमयकितिणीरवैरिवोद्विरद्दगनविहारिणां गिरम् । विमानमुत्तरलपताकिकाञ्चलैर्निवारयन्खयमिव रेणुसंगमम् ।। ५६ ।। खफूत्कृतज्वलितविषानलोल्कया करालितामिव परितोऽपि बिनता ।
१. इन्द्रगजम्. २. षण्ढम्.