________________
११
३ सर्गः]
नेमिनिर्वाणम् । फणावलीमरुणमणिप्रभावितां फणाभृता भुजगनिवासमाश्रितम् ॥ ५७ ॥ परस्परव्यतिकरचित्रदर्शनैर्मरीचिभिर्नभसि विसारिभिर्भृशम् । खरक्षणव्यसनितया बिडौजसो धनुर्लतां दधदिव रत्नमण्डलम् ॥ ५८ ॥ हुताशनं परिहृतधूमसंगम प्रसेदुषा ज्वलितमतीव रोचिषा । परिक्षवाक्षिलमलशुद्धसंविदं हृदि स्थितं पुरुषमिवात्मगोचरम् ॥ ५९॥
इति हृदि यदा खमश्रेणीमचिन्तितदर्शनां .. ..
कलयति किल क्षोणीभर्तुः प्रिया प्रियसंक्मा । रजनिविरतिव्याख्यादक्षस्तदा कृतगीतिभिः
सुरयुवतिभिभूयो भूयोऽप्यताड्यत दुन्दुभिः ।। ६०॥ . इति श्रीनेमिनिर्वाणे वाग्भटविरचिते महाकाव्ये गर्भशोधनों नाम
___ द्वितीयः सर्गः।
तृतीयः सर्गः। अभ्युल्लसन्नयनवारिरुहस्मितायाः
खानान्तरातिशयदर्शनविस्मितायाः । तस्याः पुरः परिणतार्थपदैवैचोमिः . श्यामा विराममिति काचिदुवाच देवीं ॥१॥ राज्ञा करव्यतिकरे समयावबोधा
न्मन्दीकृते धृतवतापि विशेषरागम् । विसस्तमन्दरुचितारकपुष्पमाल
मेषा नभस्तलिनमुज्झति देवि रात्रिः ॥२॥
१. आकाशशय्याम्.