SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । ययामिनीलतिकया ललितावलोक- . - मेकं प्रसूनमुररीकृतलक्ष्मभृङ्गम् । तचन्द्रबिम्बकुसुमं स्फुरितप्रभात, वाताहतं पतति पश्चिमशैलमौलेः ॥ ३ ॥ मन्ये मधूनि निशि कैरवपत्रपात्रे पीतानि शीतरुचिना करनालयन्त्रैः । नो चेत्कथं पतति निर्गलितांशुकोऽयं कोकैः सहर्षनिनदैरिव हस्यमानः ॥ ४ ॥ लुप्तं चकोरवयसाममृतान्नसत्रं - छत्रं जगत्रयजितो मदनस्य भनम् । अस्तं प्रयाति हिमधामनि विश्वमान्ये __ भेजे मिदामहह कैरवजीवितव्यम् ॥ ५ ॥ उत्तम्भितभ्रमरपोरणितोरणेषु । जातेषु कण्टकगृहेषु सरोरुहेषु । द्यौः सांप्रतं जगदराजकमित्यवेत्य __ भीतेव गोपयति तारकभूषणानि ॥ ६ ॥ अस्मक्रमेण कतमः कथयात्र लोके नो चञ्चलत्वमधिगच्छति दुर्विदग्धः । इत्युच्चकैः कुपितकालकपोलपालि लीलामियं हरिहयस्य हरिदधाति ।। ७ ।। देवि प्रबोधविधये तव वैबुधीभि रामिर्वधूमिरमितोऽपि विधीयमानम् । १. चन्द्ररहितम्. २. अविरक्तताम्, . -
SR No.090299
Book TitleNeminirvanam
Original Sutra AuthorVagbhatt Mahakavi
AuthorVagbhatt Mahakavi
PublisherPandurang Javji
Publication Year1936
Total Pages124
LanguageSanskrit
ClassificationBook_Devnagari, Story, & Biography
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy