________________
काव्यमाला । ययामिनीलतिकया ललितावलोक- . - मेकं प्रसूनमुररीकृतलक्ष्मभृङ्गम् । तचन्द्रबिम्बकुसुमं स्फुरितप्रभात, वाताहतं पतति पश्चिमशैलमौलेः ॥ ३ ॥ मन्ये मधूनि निशि कैरवपत्रपात्रे
पीतानि शीतरुचिना करनालयन्त्रैः । नो चेत्कथं पतति निर्गलितांशुकोऽयं
कोकैः सहर्षनिनदैरिव हस्यमानः ॥ ४ ॥ लुप्तं चकोरवयसाममृतान्नसत्रं - छत्रं जगत्रयजितो मदनस्य भनम् । अस्तं प्रयाति हिमधामनि विश्वमान्ये __ भेजे मिदामहह कैरवजीवितव्यम् ॥ ५ ॥ उत्तम्भितभ्रमरपोरणितोरणेषु ।
जातेषु कण्टकगृहेषु सरोरुहेषु । द्यौः सांप्रतं जगदराजकमित्यवेत्य __ भीतेव गोपयति तारकभूषणानि ॥ ६ ॥ अस्मक्रमेण कतमः कथयात्र लोके
नो चञ्चलत्वमधिगच्छति दुर्विदग्धः । इत्युच्चकैः कुपितकालकपोलपालि
लीलामियं हरिहयस्य हरिदधाति ।। ७ ।। देवि प्रबोधविधये तव वैबुधीभि
रामिर्वधूमिरमितोऽपि विधीयमानम् । १. चन्द्ररहितम्. २. अविरक्तताम्,
.
-